8-2-58 वित्तः भोगप्रत्यययोः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः न
वित्त इति विदेर्लाभार्थात् उत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये चाभिधेये। वित्तमस्य बहु। धनमस्य बह्वित्यर्थः। धनं हि भुज्यत इति भोगोऽभिधीयते। प्रत्यये — वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। प्रतीयत इति प्रत्ययः। भोगप्रत्यययोरिति किम्? विन्नः॥
विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन -<{SK3099}> इति क्वसौ वेट्त्वादिह नेट् ॥
<<वित्तो भोगप्रत्यययोः>> - वित्तो भोग । भुज्यत इति भोगः — भोग्यम् । प्रतीयते इति प्रत्ययः — प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह — विदन्तेरिति । निपातोयमिति । 'नुदविदोन्दे' ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः । अत्रयस्य विभाषे॑ति इण्निषेदमुपपादयति — विभाषा गमेति । 'एकाच' इति निषेधाच्चेत्यपि बोध्यम् ।
लाभार्थादिति । ज्ञानार्थादिटा भाव्यम् । सताविचारणार्थयोरपि न भोगप्रत्यययोर्वृत्तिः सम्भवतीति भावः । कथं पुनर्भोगे निपात्यमानो वितशब्दो धने भवति ? इत्यत आह - धनं हीति । कर्मसाधनः सूत्रे भोगशब्द इत्यर्थः । एतेन'प्रत्ययः' इति व्याख्यातम् । विन्न इति ।'विभाषा गमहनविदविशाम्' इति तौदादिकस्य क्वसौ विकल्पितेटत्वाद्'यस्य विभाषा' इति निष्ठायामिठ्प्रतिषेधः ॥