5-2-137 सञ्ज्ञायां मन्माभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
'तत् अस्य, अस्मिन् अस्तीति' (इति) संज्ञायाम् मन्-माभ्याम् इनिः
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः मन्नन्तेभ्यः शब्देभ्यः तथा 'म' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः संज्ञायाः विषये 'इनि' प्रत्ययः भवति ।
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
मन्नन्तात् प्रातिपदिकान् मशब्दान्ताच् च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् संज्ञा गम्यते। प्रथिमिनी। दामिनी। मशब्दान्तात् होमिनी। सोमिनी। संज्ञायाम् इति किम्? सोमवान्। होमवान्।
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु केभ्यश्चन मन्नन्तेभ्यः शब्देभ्यः ( = 'मन्' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः) तथा च 'म' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः एतयोः अर्थयोः संज्ञायाः विषये वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । उदाहरणानि एतानि -
अ). प्रथिमा (= विस्तारः ) अस्ति अस्य सा प्रथिमिनी पृथ्वी । प्रक्रिया इयम् -
प्रथिमन् + इन्
→ प्रथिमन् + इन् [नस्तद्धिते 6.4.144 इति टिलोपः]
→ प्रथिमिन्
→ प्रथिमिन् + ङीप् [स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इति ङीप्]
→ प्रथिमिनी
आ) दामा (नगः / खण्डः) अस्ति अस्याः सा दामिनी (lightening) । अत्रापि दामन् + इन्+ ङीप् → दामिनी इति प्रातिपदिकं सिद्ध्यति । विद्युत् प्रायः पर्वतम् यावत् उच्चैः दृश्यते अतः अत्र 'नगः अस्ति अस्याः' इति निर्देशः कृतः अस्ति । Since the lightening is typically seen as high as a mountain, the tip of the mountain is said to belong to the lightening. That is the context used here.
अ) होमः अस्ति यस्याः सा =होमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा ।
आ) सोमः अस्ति अस्याः सा सोमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा ।
ज्ञातव्यम् - अस्य सूत्रस्य प्रयोगः संज्ञायाः साधुत्वार्थम् एव भवति ।
index: 5.2.137 sutra: संज्ञायां मन्माभ्याम्
प्रथमिनि, दामिनीति। ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन चऽ इति तदन्तविधिः,'नस्तद्धिते' इति टिलोपः ॥