तुन्दिवलिवटेर्भः

5-2-139 तुन्दिवलिवटेः भः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


'तत् अस्य, अस्मिन् अस्तीति' (इति) तुन्दि-वलि-वटेः भः

Neelesh Sanskrit Brief

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'तुन्दि', 'वलि' तथा 'वटि' एतेभ्यः शब्देभ्यः 'भ' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे। तुन्दिः इति वृद्धा नाभिरुच्यते, सा अस्य अस्तीति तुन्दिभः। बलिभः। वटिभः। वलिशब्दः आमादिषु पठ्यते, तेन बलिनः इत्यपि भवति।

Siddhanta Kaumudi

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'तुन्दि', 'वलि' तथा 'वटि' - एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण 'भ' प्रत्ययः पाठ्यते । क्रमेण पश्यामः -

  1. तुन्दिः (protruded belly) अस्य अस्ति सः तुन्दिभः ।

  2. वलिः (wrinkles) अस्य अस्ति सः वलिभः ।

  3. वटिः (मोदकः) अस्य अस्ति सः वटिभः ।

एतानि त्रीणि अपि गणेशस्य विशेषणानि । (गणेशस्य शुण्डे वलयः सन्ति अतः तस्य नाम 'वलिभ' इति अपि दीयते) । एतेषां प्रयोगः अन्येषाम् शब्दानाम् विशेषणरूपेण अपि भवितुमर्हत्येव ।

Balamanorama

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


तुन्दिवलिवटेर्भः - तन्दिवलि । तन्दि, वलि, बटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति ।वट वेष्टने॑ । वटनं वटिः । सोऽस्यास्तीति विग्रहः ।

Padamanjari

Up

index: 5.2.139 sutra: तुन्दिवलिवटेर्भः


अहमिति शब्दान्तरमेवेति। ननु नात्र कश्चिच्छब्दः प्रकृतो यदपेक्षं शब्दान्तरत्वं स्यात् ? सत्यम्;'त्वाहौ सौ' इत्यस्मदादेशोऽहंशब्दः प्रसिद्धिवसाध् बुद्धिस्थो निर्द्दिष्टप्रायः, तदपेक्षं शब्दान्तरत्वम्। अहङ्ककारे वर्तते इति। अनेनार्थबेदमाह -'गर्वो' भिमानोऽहङ्कारःऽ। अहंयुः, शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै। ठूर्णाया युस्ऽ इत्यत्र ये'च्छन्दसि' इति नानुवर्तयन्ति तेषामत्रैवोर्णाग्रहणं कर्तव्यम् ॥