वाचो ग्मिनिः

5-2-124 वाचः ग्मिनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) वाचः ग्मिनिः

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वाच्' शब्दात् प्रथमासमर्थात् 'ग्मिनि' प्रत्ययः भवति ।

Kashika

Up

वाच्शब्दाद् ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्ग्मी, वाग्ग्मिनौ, वाग्ग्मिनः॥

Siddhanta Kaumudi

Up

वाग्ग्मी ॥

Laghu Siddhanta Kaumudi

Up

वाग्ग्मी॥

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वाच्' शब्दात् वर्तमानसूत्रेण 'ग्मिनि' प्रत्ययः भवति । प्रशस्ता वाक् अस्य अस्ति सः वाग्ग्मी । One who can speak fluently इत्याशयः । प्रक्रिया इयम् - वाच् + ग्मिनि → वाच् + ग्मिन् [इकारः उच्चारणार्थः, तस्य लोपः । अङ्गस्य <<स्वादिष्वसर्वमानस्थाने>> 1.4.17 इति पदसंज्ञा] → वाक् + ग्मिन् [<<चोः कुः>> 8.2.30 इति कुत्वे ककारः] → वाग् + ग्मिन् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तककारस्य गकारः] → वाग्ग्मिन् अत्र तद्धितान्ते शब्दे द्वयोः गकारयोः श्रवणम् भवतीति ज्ञातव्यम् । स्मर्तव्यम् - 1. 'ग्मिनि' इत्यत्र आदिस्थः गकारः इत्संज्ञकः नास्ति, यतः तद्धितप्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा न भवति । 2. 'ग्मिनि' इत्यत्र नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति निर्देशयितुम् स्थापितः अस्ति । प्रक्रियायां तस्य लोपः भवति ।

Balamanorama

Up

<<वाचो ग्मिनिः>> - वाचोग्मिनिः । वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम् । प्रत्यये गकारोच्चारणं तुप्रत्यये भाषाया॑मित्यनुनासिकाऽभावार्थम् ।

Padamanjari

Up

वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च ठनचि चऽ इति द्विर्वचनम्,'दीर्घादाचार्याणाम्' इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि'यरो' नुनासिकेऽ'प्रत्यये भाषायां नित्यवचनम्' इति नित्यमनुनासिकः प्राप्नोति, तथा - वाङ्भयम्, त्वङ्भयमिति ॥