5-2-125 आलजाटचौ बहुभाषिणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् वाचः
'तत् अस्य, अस्मिन् अस्तीति' (इति) वाचः बहुभाषिणि आलच्-आटचौ
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'वाच्' शब्दात् 'बहुभाषी' एतमर्थम् दर्शयितुम् 'आलच्' तथा 'आटच्' प्रत्ययौ भवतः ।
वाच्शब्दात् प्रथमासमर्थादालच् आटच् इत्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिण्यभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः॥ कुत्सित इति वक्तव्यम्॥ यो हि सम्यग् बहु भाषते, वाग्ग्मीत्येव स भवति॥
।<!कुत्सित इति वक्तव्यम् !> (वार्तिकम्) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादत्वेन 'वाच्' शब्दात् <<वाचो ग्मिनिः>> 5.2.124 इत्यनेन 'ग्मिनि' प्रत्ययः भवति । परन्तु यत्र 'बहुभाषी' इति अर्थः अपेक्षते, तत्र एतम् 'ग्मिनि'प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'आलच्' तथा 'आटच्' एतौ प्रत्ययौ भवतः । यथा - बह्वी वाक् अस्य अस्ति सः वाचालः वाचाटः वा । वाच् + आलच् → वाचाल । वाच् + आटच् → वाचाट । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!कुत्सिते इति वक्तव्यम्!> । इत्युक्ते, यः कुत्सितम् बहु भाषते (speaks irrelevant / bad things a lot) तस्यैव निर्देशार्थम् 'वाचाल' तथा 'वाचाट' एतयोः प्रयोगः भवति । यः 'सम्यक् बहु भाषते', तस्य निर्देशार्थम् तु <<वाचो ग्मिनिः>> 5.2.124 इत्यनेन 'ग्मिनि' प्रत्ययः एव क्रियते । यथा - सम्यक् बहु भाषते सः वाग्ग्मी ।
<<आलजाटचौ बहुभाषिणि>> - आलजाटचौ । वाच्शब्दात् — आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं,यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती॑ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः ।
यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ॥