काण्डाण्डादीरन्नीरचौ

5-2-111 काण्डाण्डात् ईरन्नीरचौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) काण्ड-अण्डात् ईरन्-ईरचौ

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'काण्ड'शब्दात् ईरन्-प्रत्ययः तथा 'अण्ड'शब्दात् ईरच्-प्रत्ययः भवति ।

Kashika

Up

काण्ड अण्ड इत्येताभ्यां यथासंख्यमीरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे। काण्डीरः। अण्डीरः॥

Siddhanta Kaumudi

Up

काण्डीरः । आण्डीरः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'काण्ड' (stem) शब्दात् 'ईरन्' प्रत्ययः तथा 'अण्ड' (sphere, egg) अस्य अस्ति' अस्मात् शब्दात् 'ईरच्' प्रत्ययः भवति । अ) काण्डमस्य अस्मिन् वा अस्ति सः = काण्ड + ईरन् → काण्डीरः । आ) अण्डमस्य अस्मिन् वा अस्ति सः = अण्ड + ईरच् → अण्डीरः । विशेषः - 1. ईरन् तथा ईरच् - द्वयोः अपि प्रत्यययोः समानमेव रूपं भवति, परन्तु तत्र स्वरभेदः दृश्यते । 'ईरन्' प्रत्ययान्तः 'काण्डीर' शब्दः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्तः भवति, तथा च 'ईरच्' प्रत्ययान्तः 'अण्डीर' शब्दः <<तद्धितस्य>> 6.1.164 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । 2. अस्मिन् सूत्रे 'ईरन् + ईरच्' इत्यत्र <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> 8.3.32 इत्यनेन 'ईरच्' इत्यस्य ईकारस्य नुट्-आगमः भवति, अतः 'ईरन्निरच्' इत्यत्र द्वौ नकारौ श्रूयेते ।

Balamanorama

Up

<<काण्डाण्डादीरन्नीरचौ>> - काण्डाण्डादीरन्नीरचौ । काण्ड, आण्ड-आभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः ।

Padamanjari

Up