रजःकृष्यासुतिपरिषदो वलच्

5-2-112 रजःकृष्यासुतिपरिषदः वलच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) रजस्-कृषि-आसुति-परिषदः वलच्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'रजस्', 'कृषि', 'आसुति' तथा 'परिषद्' एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः 'वलच्' प्रत्ययः भवति ।

Kashika

Up

रजःप्रभृतिभ्यः प्रातिपदिकेभ्यो वलच् प्रत्ययो भवति मत्वर्थे। रजस्वला स्त्री। कृषीवलः कुटुम्बी। आसुतीवलः शौण्डिकः। परिषद्वलो राजा। <<वले>> ६.३.११८ इति दीर्घत्वम्। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यते। तेनेह न भवति — रजोऽस्मिन् ग्रामे विद्यत इति॥ वलच्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ भ्रातृवलः। पुत्रवलः। उत्साहवलः॥

Siddhanta Kaumudi

Up

रजस्वला स्त्री । कृषीवलः । वले <{SK1040}> इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ।<!अन्येभ्योऽपि दृश्यते !> (वार्तिकम्) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले <{SK1040}> इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण चतुर्भ्यः शब्देभ्यः अनेन सूत्रेण वलच्-प्रत्ययः भवति । क्रमेण पश्यामः - 1. रजः (impurity) अस्य अस्मिन् वा अस्ति = रजस् + वलच् → रजस्वल । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप् - रजस्वला । यथा - रजस्वला स्त्री । 2. कृषि (agriculture / cultivation) अस्य अस्मिन् वा अस्ति = कृषि + वलच् → कृषीवल । यथा - कृषीवलः वैश्यः । अत्र <<वले>> 6.3.118 इति अङ्गस्य दीर्घादेशः भवति । 3. आसुति (brew / distillation) अस्य अस्मिन् वा अस्ति = आसुति + वलच् → आसुतीवल । यथा - आसुतीवलः शङ्कुः । अत्रापि <<वले>> 6.3.118 इति अङ्गस्य दीर्घादेशः भवति । 4. परिषद् (council / conference) अस्य अस्मिन् वा अस्ति = परिषद् + वलच् → परिषद्वल । यथा - परिषद्वलः राजा । अत्र एकम् वार्त्तिकं ज्ञेयम् - <!वलच्प्रकरणे 'अन्येभ्योऽपि दृश्यते' इति वक्तव्यम्!> । इत्युक्ते, 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अनेभ्यः केभ्यश्चन शब्देभ्यः अपि 'वलच्' प्रत्ययः भवति । यथा - अ) भ्राता अस्य अस्ति सः भ्रातृवलः । आ) उत्साहः अस्य अस्मिन् वा अस्ति सः उत्साहवलः । (इ) पिता अस्य अस्ति सः पितृवलः । एतेषु उदाहरणेषु <<वले>> 6.3.118 इति अङ्गस्य दीर्घादेशः न भवति, यतः तत्र 'संज्ञायाम्' इति अनुवृत्तिः स्वीक्रियते (इत्युक्ते, विशिष्टेभ्यः शब्देभ्यः एव <<वले>> 6.3.118 इत्यनेन अङ्गस्य दीर्घादेशः भवति, सर्वेभ्यः न) । विशेषः - अनेन सूत्रेण जायमानानाम् शब्दानाम् विशिष्टेषु अर्थेषु एव प्रयोगः भवति । यथा - 'रजस्वल' शब्दस्य स्त्रियाः विषये एव प्रयोगः क्रियते ।

Balamanorama

Up

<<रजःकृष्यासुतिपरिषदो वलच्>> - रजःकृषि । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः । आसुतीवल इति ।षुञ् अभिषवे॑ । आङ्पूर्वात्स्त्रियां क्तिन् । 'वले' इति दीर्घः ।अन्येभ्योऽपीति । वार्तिकमिदम् ।रजः कृषी॑त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः । भ्रातृवलः । 'ढ्रलोपे' इत्यतोऽण इत्यनुत्तेः 'वले' इति न दीर्घः । पुत्रवल इत्यादौ 'वले' इति दीर्घमाशङ्क्याह — वले इत्यत्रेति ।

Padamanjari

Up

आसुतीवल इति।'षुञ् अभिषवे' , क्तिन्, आसुतिःउअभिषवः। परिषदूल इति। परितः सीदन्तीति परिषत्,'सत्सूद्विष' इत्यादिना क्विप्,'सदिरप्रतेः' इति षत्वम्। पर्षच्छब्दमन्ये पठन्ति,'शदिभसो' दिःऽ बाहुलकात्पृषेरपि भवति -'पर्षदेषा दशावरा' इति हि दृश्यते;'पार्षदकृतिरेषा तत्र भवताम्' 'सर्ववेदपार्षदं हीदं शास्त्रम्' इति च भाष्ये।'पर्षद्वलामहाब्रह्मौरागतैः कठकाश्रमात्' इति च भट्टिकाव्ये। परिषच्छब्दस्तु प्रसिद्ध एव -'सहस्रशः समेतानां परिषत्वं न विद्यते' इति मनुः। अत्र च सूत्रे उभयोरपि उभयथा सूत्रप्रणयनात्। भ्रातृवल इति ।'वलः' इत्यत्राण्ग्रहणानुवतेर्दीर्घाभावः। पुत्रवलः, उत्साहवल इत्यत्र त्वसंज्ञयां दीर्घाभावः। संज्ञायां तु दीर्घत्वम्,'वलः' इत्यत्र हि'वनगिर्योः संज्ञायाम्' इत्यतः'संज्ञायाम्' इत्यनुवर्तते ॥