गाण्ड्यजगात् संज्ञायाम्

5-2-110 गाण्ड्यजगात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् वा

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) संज्ञायाम् गाण्डी-अजगात् वः

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'गाण्डी' शब्दात् तथा 'अजग' शब्दात् प्रथमासमर्थात् संज्ञायाः विषये 'व' इति प्रत्ययः भवति ।

Kashika

Up

गाण्डी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गाण्डीवं धनुः। अजगवं धनुः। ह्रस्वादपि भवति — गाण्डिवं धनुरिति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्॥

Siddhanta Kaumudi

Up

ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः संज्ञायाः विषये 'गाण्डी' शब्दात् तथा 'अजग' शब्दात् संज्ञायाः विषये 'व' इति प्रत्ययः अनेन सूत्रेण दीयते । क्रमेण पश्यामः - 1. 'गाण्डी (name of a tree) अस्मिन् अस्ति' अस्मिन् अर्थे 'गाण्डी' शब्दात् 'व' प्रत्ययं कृत्वा 'गाण्डीव' इति शब्दः सिद्ध्यति । गाण्डी + व → गाण्डीव । अर्जुनस्य धनुषः इदम् नाम । 'गाण्डी' नाम्नः वृक्षस्य काष्ठम् प्रयुज्य अस्य निर्माणमभवत्, अतः 'गाण्डी अस्मिन् अस्ति' इति अस्य विग्रहः दीयते । विशेषः - 'गाण्डि' (name of a tree) इत्यस्मात् ह्रस्व-इकारान्तशब्दादपि अनेन सूत्रेण व-प्रत्ययः भवति - इति व्याख्यानैः स्पष्टीक्रियते । गाण्डिः अस्मिन् अस्ति तत् गाण्डिवम् । अयं शब्दः अपि अर्जुनस्य धनुषः नाम्नः निर्देशार्थमेव प्रयुज्यते । 2. 'अजग (= विष्णुः) अस्मिन् अस्ति' अस्मिन् अर्थे 'अजग' शब्दात् 'व'प्रत्ययं कृत्वा 'अजगव' इति शब्दः सिद्ध्यति । अजग + व → अजगव । शङ्करस्य धनुषः इदम् नाम । त्रिपुरासुरस्य वधस्य समये स्वयम् भगवान् विष्णुः शररूपेण शङ्करस्य धनुषि अतिष्ठत् - इति काचन कथा वर्तते । एतामनुसृत्य एव शङ्करस्य धनुषः नाम 'अजगव' इति दत्त्म अस्ति । अजगः यस्मिन् अस्ति तत् अजगवम् शिवधनुः । स्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते अतः अनेन सूत्रेण निर्मितौ शब्दौ केवलं विशिष्टे अर्थे एव प्रयुज्येते ।

Balamanorama

Up

<<गाण्ड्यजगात् संज्ञायाम्>> - गाण्डजगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड इति युगपन्निर्देशः — ॒ख्यत्वात्परस्ये॑त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः ।

Padamanjari

Up

गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति -'गाण्डीवी कनकशिलानिभं भुजाभ्याम्' ठधिरोहति गाण्डिवं महेषौऽ इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ॥