5-2-102 तपःसहस्राभ्यां विनीनी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
'तत् अस्य, अस्मिन् अस्तीति' (इति) तपः-सहस्राभ्याम् विनि-इनी
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'तपस्' तथा 'सहस्र' शब्दाभ्याम् यथासङ्ख्यम् 'विनि' तथा 'इनि' प्रत्ययौ भवतः ।
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतः मत्वर्थे। प्रत्ययार्थयोस् तु यथासङ्ख्यं सर्वत्र एव अस्मिन् प्रकरणे निस्यते। तपोऽस्य अस्मिन् वा विद्यते तपस्वी। सहस्री। असन्तत्वाददन्तत्वाच् च सिद्धे प्रत्यये पुनर्वचनमणा वक्ष्यमाणेन बाधा मा भूतिति। सहस्रात् तु ठनपि बाध्यते।
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते । अस्य अपवादरूपेण 'तपस्' तथा 'सहस्र' एताभ्यां शब्दाभ्याम् यथासङ्ख्यम् 'विनि' तथा 'इनि' एतौ प्रत्ययौ भवतः । यथा -
विशेषः - अस्मायामेधास्रजो विनिः 5.2.121 इत्यनेन सर्वेभ्यः 'असन्त'शब्देभ्यः 'विनि' प्रत्ययविधानम् भवति । तपस्-शब्दः 'असन्तः' (= 'अस्' यस्य अन्ते विद्यते सः) अस्ति, अतः अस्मायामेधास्रजो विनिः 5.2.121 इत्यनेन तपस्-शब्दात् अपि विनि-प्रत्ययः भवितुमर्हति । अस्यां स्थितौ वर्तमानसूत्रेण पुनः विनि-प्रत्ययः किमर्थमुक्तः अस्तीति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'अणा वक्ष्यमाणेन बाधा मा भूत्' । इत्युक्ते, अण् च 5.2.103 इत्यनेन अग्रिमसूत्रेण 'तपस्' शब्दात् अण्-प्रत्ययः उच्यते, सः अण्-प्रत्ययः अस्मायामेधास्रजो विनिः 5.2.121 इत्यनेन प्राप्तम् विनि-प्रत्ययम् विशिष्टत्वात् बाधते । अतः तपस्-शब्दात् विनि-प्रत्ययस्य पुनर्विधानम् कर्तुमस्मिन् सूत्रे 'विनि' प्रत्ययः विशिष्टरूपेण प्रोक्तः अस्ति ।
विशेषः - अत इनिठनौ 5.2.115 अनेन सूत्रेण सर्वेभ्यः अदन्तशब्देभ्यः मतुबर्थयोः 'इनि' तथा 'ठन्' एतौ प्रत्ययौ भवतः । अस्यां स्थितौ सहस्र-शब्दात् अस्मिन् सूत्रे विशिष्टरूपेण 'इनि' प्रत्ययविधानम् 'ठन्'प्रत्ययस्य बाधनार्थमस्ति । अतः सहस्र-शब्दात् मतुबर्थयोः केवलम् इनि-प्रत्ययः भवति, ठन् न । तथा च, 'तपस्' शब्दवत् 'सहस्र' शब्दस्य विषये अपि अग्रिमसूत्रे पाठितः अण्-प्रत्ययः अपि भवत्येव ।
विशेषः -
'विनि' तथा 'इनि' उभयत्र नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्', इति ज्ञापयितुम् स्थापितः अस्ति ।
विनि-प्रत्ययान्तशब्दाः तथा च इनि-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - तपस्विनी, सहस्रिणी ।
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
तपःसहस्राभ्यां विनीनी - तपः सहरुआआभ्यां । विनिश्च इनिश्चेति द्वन्द्वः । 'मत्वर्थे' इति शेषः । यथासंख्यमन्वयः । विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोरित्संज्ञा कुतो न स्यात् । नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह — नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः । यद्यपिअस्मायामेधे॑त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम् । सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते ।
index: 5.2.102 sutra: तपःसहस्राभ्यां विनीनी
विनीन्योरिकारः - नकारस्येत्संज्ञा मा भूदिति। केचितु विनीनावितीकाराकारौ पठन्ति, नकारान्तपाठे त्वित्संज्ञा प्राप्नोति। प्रत्ययार्थयोस्त्वित्यादि। यथा त्वनिष्यमाणमपि यथासंख्यं न भवति तथा पूर्वमेवोक्तम्। असन्तत्वादित्यादि। तपः शब्दाद् ठस्मायामेधाऽ इत्यादिना विनिप्रत्यये सिद्धे सहस्रशब्दादपि ठत इनिठनौऽ इतीनिप्रत्यये सिद्धे, यत्पुनरिदं विधानं तद्वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। अणेति। हेतौ तृतीया। कर्तरि तु कृद्योगलक्षणा षष्ठी न प्राप्नोति, उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति, विनीन्योर्बाधा मा भूदिति कर्मणोऽपि गम्यमानत्वात्, यथा-ठ् येनादर्शनमिच्छतिऽ इति ? नैतदस्ति, अकाकारयोः प्रयोगे नियमस्य प्रतिषेधात्, तस्माद्धेतावेव तृतीया। घञ्न्तो वा बाधशब्दः पठनीयः। सहस्रशब्दादट्ठनपि बाध्यत इति। बाधा तु ठन इनणोः प्रतिपदविधानात् ॥