5-2-103 अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् तपःसहस्राभ्यां
index: 5.2.103 sutra: अण् च
'तत् अस्य, अस्मिन् अस्तीति' (इति) तपः-सहस्राभ्यामण्
index: 5.2.103 sutra: अण् च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'तपस्' तथा 'सहस्र' शब्दाभ्यामण्-प्रत्ययः भवति ।
index: 5.2.103 sutra: अण् च
तपःसहस्राभ्यामण् च प्रत्ययो भवति। तापसः। साहस्रः। योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश्च। अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानम्। ज्योत्स्ना विद्यतेऽस्मिन् पक्षे ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डलः। कौतपः। वैसर्पः। वौपादिकः।
index: 5.2.103 sutra: अण् च
योगविभाग उत्तरार्थः । तापसः । साहस्रः ।<!ज्योत्स्नादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ ज्यौत्स्नः । तामिस्रः ॥
index: 5.2.103 sutra: अण् च
'तपस्' तथा 'सहस्र' एताभ्यां शब्दाभ्याम् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः तपःसहस्राभ्यां विनीनी 5.2.102 अनेन सूत्रेण विनि तथा इनि प्रत्ययौ भवतः । वर्तमानसूत्रेण एताभ्यां शब्दाभ्यामण्-प्रत्ययः अपि विधीयते । यथा -
तपः अस्य अस्मिन् वा अस्ति वा सः तापसः । अत्र 'तपस् + अण् → तापस' इति प्रातिपदिकम् ।
सहस्रमस्य अस्मिन् वा अस्ति सः साहस्रः । अत्र 'सहस्र + अण् → साहस्र' इति प्रातिपदिकम् ।
अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अण्-प्रकरणे ज्योत्स्नादिभ्यः उपसंख्यानम्!> । इत्युक्ते, 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ज्योत्स्नादिगणस्य शब्देभ्यः अपि अण्-प्रत्ययः भवति ।
ज्योत्स्नादिगणस्य आवल्यामण्-प्रत्ययं योजयित्वा एव शब्दाः पाठ्यन्ते । इयमावली एतादृशी -
ज्यौत्स्नः (= ज्योत्स्ना + अण्), तामिस्रः (तमिस्र + अण्), कौण्डलः (= कुण्डल + अण्), कौतपः (= कुतप + अण्), वैसर्पः (= विसर्प + अण्), वौपादिकः (वुपादिक + अण्) ।
विशेषः - वस्तुतः अण्-प्रत्ययः पूर्वस्मिन् सूत्रे एव भवितुमर्हति । परन्तु अग्रिमसूत्रे केवलम् 'अण्' इति अनुवर्तनीयमस्ति अतः (स्पष्टतायै) अण् इति सूत्रम् भिन्नरूपेण गृह्यते - इति व्याख्यानानि स्पष्टीकुर्वन्ति ।
index: 5.2.103 sutra: अण् च
अण् च - अण्च ।तपःसहरुआआभ्यां मत्वर्थे॑ इति शेषः । ननुतपःसहरुआआभ्यां विनीन्यणः॑ इत्येकमेव सूत्रमस्तु । नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं,तपःसहरुआआभ्यामण्विनीनी॑ इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह — योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्यौत्स्न इति । 'शुक्लपक्ष' इति शेषः । ज्योत्स्ना=चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिरुआ इति । 'कृष्णपक्ष' इति शेषः । तमिरुआआः=तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः । ज्योत्स्नादित्वादण् ।
index: 5.2.103 sutra: अण् च
अण्प्रकरणे इत्यादि। प्रकरणम् प्रस्तावः, काण्डं वा। ज्योत्स्नातमिस्रेत्यादिसूत्रे पठितानां ग्रहणम्। ज्यौत्स्नः पक्ष इति। स पुनः पूर्वः पक्षः तत्र हि पञ्चदशस्वपि तिथिषु ज्योत्स्ना भवतीति कृत्स्नः पक्षो ज्योत्स्नया व्याप्यते। एतेन तामिस्रो व्याख्यातः, तमःसमूहस्तामिस्रम्, मत्वर्थीयो रः। तत्र ह्यवयवभूतानि तमांसि विद्यन्ते तधस्मिन्नस्ति स तामिस्रोऽपरः पक्षः। तमिस्रारात्रिर्यस्मिन्विद्यत इति वा तामिस्रः, नरकविशेषस्यैषा संज्ञा। कुण्कडलार्हः कौण्कडलः। तत्र यथाकथञ्चिन्मत्वर्थीय उपपाद्यः। यस्तु संसक्तकुण्कडलः स कुण्डली भवति। अयं च नियम इतिकरणानुवृतेर्ल भ्यते ॥