5-2-101 प्रज्ञाश्रद्धार्चाभ्यः णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
'तत् अस्य, अस्मिन् अस्तीति' (इति) प्रज्ञा-श्रद्धा-अर्चाभ्यः णः, मतुँप् अन्यतरस्याम्
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् प्रज्ञा-शब्दात्, श्रद्धा-शब्दात् अर्चा-शब्दात् च 'ण'-प्रत्ययः भवति, पक्षे 'मतुँप्' अपि भवति ।
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यः णः प्रत्ययो भवति मतुबर्थे। मतुप् सर्वत्र समुच्चीयते। प्राज्ञः, प्रज्ञावान्। श्राद्धाः, स्रद्धावान्। आर्चः, अर्चावान्। वार्त्तः, वृत्तिमान्।
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ।<!वृतेश्च !> (वार्तिकम्) ॥ वार्तः ॥
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
तदस्यास्त्यस्मिन्नति मतुँप् 5.2.94 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः उच्यते । एतयोः एव अर्थयोः 'प्रज्ञा', 'श्रद्धा', तथा 'अर्चा' - एतेभ्यः शब्देभ्यः विकल्पेन ण-प्रत्ययः अपि भवति । यथा -
प्रज्ञा अस्य अस्मिन् वा अस्ति = प्रज्ञा + ण → प्राज्ञ । पक्षे - प्रज्ञा + मतुँप् → प्रज्ञावत् ।
श्रद्धा अस्य अस्मिन् वा अस्ति = श्रद्धा + ण → श्राद्ध । पक्षे - श्रद्धा + मतुँप् → श्रद्धावत् ।
अर्चा अस्य अस्मिन् वा अस्ति = अर्चा + ण → आर्च । पक्षे - अर्चा + मतुँप् → अर्चावत् ।
अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <! वृतेश्च!> । इत्युक्ते, 'वृत्ति' शब्दस्य अपि अस्मिन् सूत्रे ग्रहणं भवति । यथा -
वृत्तिः अस्य अस्मिन् वा अस्ति सः वार्त्तः । पक्षे मतुँप् प्रत्ययं कृत्वा 'वृत्तिमान्' इत्यपि रूपं सिद्ध्यति ।
स्मर्तव्यम् - 'ण'-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - प्राज्ञा, श्राद्धा, आर्चा, वार्त्ता ।
विशेषः - काशिकायाः बहुषु संस्करणेषु इदम् सूत्रम् 'प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' इति पाठ्यते । इत्युक्ते, 'वृत्ति' शब्दः सूत्रे एव निर्दिश्यते । परन्तु मूलरूपेण (पाणिनीय-रचनायाम्) 'वृत्ति' शब्दः सूत्रे नास्ति - इति भाष्यात् स्पष्टीभवति ।
index: 5.2.101 sutra: प्रज्ञाश्रद्धार्चाभ्यो णः
सूत्रे वृत्तिशब्दो वार्तिके दर्शनात्प्रक्षिप्तः -'वृत्तिर्विच्छेदप्रतिविदानात्' इति। प्रज्ञाग्रहणं किमर्थम्? प्राज्ञ इत्येतद्रूपं यथा स्यात्।'प्रज्ञादिभ्यश्च' इत्यणि कुते सिद्धमेतत्, प्रज्ञ एव प्राज्ञः, यस्य हि प्रज्ञाऽस्ति स प्रजानाति ? सत्यम्; स्त्रियां त्वणि ङीब् भवति - प्राज्ञी, अस्मिस्तु णे टावेव भवति - प्राज्ञा। इह तु गुणभूतया क्रियया व्याकरणादिनां सम्बन्धे णाणोरुभयोरपि व्याकरणम् - प्राज्ञैति भवति, यथा - कृतपूर्वी कटमिति तद्धितप्रयोगे हि षष्ठी न भवतीत्युक्तम् ॥