3-2-15 अधिकरणे शेतेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अच्
सुपीति संबध्यते। शेतेर्धातोरधिकरणे सुबन्त उपपदेऽच् प्रत्ययो भवति। खे शेते खशयः। गर्तशयः॥ पार्श्वादिषूपसंख्यानम्॥ पार्श्वाभ्यां शेते पार्श्वशयः। उदरशयः। पृष्ठशयः॥ दिग्धसहपूर्वाच्च॥ दिग्धेन सह शेते दिग्धसहशयः॥ उत्तानादिषु कर्तृषु॥ उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः॥ गिरौ डश्छन्दसि॥ गिरौ शेते, गिरि॒श (मा०सं० १६.४)॥
खे शेते खशयः ।<!पार्श्वादिषूपसंख्यानम् !> (वार्तिकम्) ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरेण शेते उदरशयः । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ।<!गिरौ डश्छन्दसि !> (वार्तिकम्) ॥ गिरौ शेते गिरिशः । लोके गिरिशयः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥
<<अधिकरणे शेतेः>> - हरतेर्दृतिनाथयोः । दृतिः चर्मभस्त्रिका । दृतिहरिः आआ इति वृत्तिः । 'नाथ' शब्दस्य विवरणम् — नासारज्जुमिति । नासिकाप्रोतरज्जुमित्यर्थः । नाथहरिरिति । नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् ।
अधिकरणे शेतेः॥ पर्श्वादिष्विति। अनधिकरणार्थमिदम्। तद्विग्रहेण दर्शयति - पार्श्वाभ्यामिति। दिग्धसहशय इति। दिग्धेन सह शेते इत्यचि कृते मयूरव्यंसकादित्वात्समासः। दिग्दसहशब्दो मयूरव्यंसकादिस्तस्योपपदसमासः। अवमूर्द्धशय इति। अवनतां मूर्द्धा यस्य अवमूर्द्धा अधोमुखः शेत इत्यर्थः। गिरौ डश्चन्दसीति। यदि च्छन्दसीत्युच्यते, कथम्'गिरिशमुपचचार प्रत्यहं सा सुकेशी' ,ठारोपितं यद्रिरिशेन पश्चात्ऽ इति? निरंकुशाः कवयः। अन्ये त्वाहुः - -इह यो गिरौ शेते गिरिस्तस्यास्तीति लोमादिषु दर्शनाच्छप्रत्ययः। तथा चात्रैव वार्तिकम् - तद्धितो वेति। न च लोमादिष्वपि च्छन्दोग्रहणमस्ति, तेन भाषायामपि गिरिश इति भवति। एवं च कृत्वा निघण्टुअषु पाठोऽप्युपन्नो भवति। गिरौ शेत इति। गिरावास्त इत्यर्थः॥