व्युष्टादिभ्योऽण्

5-1-97 व्युष्टादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् तत्र दीयते कार्यं

Sampurna sutra

Up

'तत्र दीयते, कार्यम्' (इति) व्युष्टादिभ्यः अण्

Neelesh Sanskrit Brief

Up

व्युष्टादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः 'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः अण् प्रत्ययः भवति ।

Kashika

Up

तत्रेति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते कार्यमित्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यं वा, वैयुष्टम्। नैत्यम्॥ अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्॥ आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्रैव ते पठितव्याः॥ व्युष्ट। नित्य। निष्क्र मण। प्रवेशन। तीर्थ। संभ्रम। आस्तरण। संग्राम। संघात। अग्निपद। पीलुमूल। प्रवास। उपसंक्रमण। व्युष्टादिः॥

Siddhanta Kaumudi

Up

व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ।<!अग्निपदादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दीयते' तथा 'कार्यम्' (= करणीयम् / कर्तुम् शक्यम्) एतयोः अर्थयोः व्युष्टादिगणस्य शब्देभ्यः अण् प्रत्ययः विधीयते । व्युष्टादिगणः अयम् - व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, सम्भ्रम, आस्तरण, सङ्ग्राम, सङ्घात, अग्निपद, पीलुमूल, प्रवास, उपसङ्क्रमण । उदाहरणानि - 1. व्युष्टे (दिने / प्रभाते) दीयते कार्यम् वा तत् वैयुष्टम् । प्रकिया इयम् - व्युष्ट + अण् → व् ऐ य् उ ष्ट + अ [ 'व्युष्ट' अयम् शब्दः 'वि + उष् + क्त' इति निर्मितः अस्ति अतः अत्र यकारः पदान्तः अस्ति । अस्यां स्थितौ <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धौ प्राप्तायां तां बाधित्वा <<न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्>> 7.3.3 इति ऐच् आगमः भवति ।] → वैयुष्ट् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैयुष्ट 2. नित्यम् दीयते कार्यम् वा तत् नैत्यम् । 3. तीर्थे दीयते कार्यम् वा तत् तैर्थम् । 4. अग्निपदे दीयते कार्यम् वा तत् आग्निपदम् । ज्ञातव्यम् - कौमुदीकारः अत्र एकम् वार्त्तिकम् पाठयति - <!अग्निपदादिभ्य उपसंख्यानम् !> । इत्युक्ते, 'अग्निपद', 'पीलुमुल' एतयोः विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति - इति । कौमुदीकारस्य मतेन एतौ शब्दौ व्युष्टादिगणे न विद्येते, अतः एतयोः विषये विशिष्टम् वार्त्तिकम् कृतमस्ति । परन्तु काशिकाकारः तु एतौ शब्दौ व्युष्टादिगणे एव पाठयति, अतः तस्य मतेन अस्य वार्त्तिकस्य आवश्यकता एव न वर्तते ।

Balamanorama

Up

<<व्युष्टादिभ्योऽण्>> - अथ ठञ्विधिर्निरूप्यते — व्युष्टादिभ्योऽण् ।तत्र च दीयते कार्य॑मित्यनुवर्तते । दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः । व्युष्टं — प्रभातम् । वैयुष्टमिति । अणिन य्वाभ्या॑मित्यैच् ।

Padamanjari

Up

प्युष्टशब्दः कालवाची दिवसमुखे वर्तते, तत्साहचर्यान्नित्यशब्दस्यापि कालवाचिनो ग्रहणम्, नाकासादिवृतेः। तत्र चात्यन्तसंयोगे द्वितीया भवतीति सप्तम्यधिकरेऽपि द्वितीयान्तात्प्रत्ययः। नित्यं दीयते कार्यं वा नैत्यम्। ठणप्रकरणेऽग्रिपदादिभ्य उपसंख्यानम्ऽ इत्येतत्प्रत्याचष्टे - न वक्तव्यमिति। न कर्तव्यमित्यर्थः। कथमित्याह - अत्रेव पठितव्यास्त इति। आदिशब्दः प्रकारवाच्याश्रयणीय इत्युक्तं भवति; अन्यथा तत्रैव पठयेरन्, उपसंख्यानं वा क्रियेत, को विशेषः ? अण्ग्रहणमनर्थकं भववदित्यनुवतिष्यते, तेनाणेव भविष्यति। न चैवं व्युष्टनित्यशब्दाभ्याम्'कालाट्ठञ्' इत्यस्य प्रसङ्गः, पूर्वेणैव ठञः सिद्धत्वात् ? सत्यम्; ठादिशब्दः प्रकारवाचीऽ इत्युक्तम्, तत्र यदी वृद्धेष्वप्येतत्कदाचिप्रवर्तते, तदा च्छः स्यात्। पठितेषु तु नास्ति दोषः ॥