5-1-69 कडङ्करदक्षिणात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
'तद् अर्हति' (इति) कडङ्कर-दक्षिणात् छः यत् च
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
'तद् अर्हति' अस्मिन् अर्थे 'कडङ्कर'शब्दात् 'दक्षिणा'शब्दात् च छ-प्रत्ययः यत्-प्रत्ययः च विधीयते ।
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हति इत्यस्मिन् विषये। ठकोऽपवादः। कडङ्करमर्हति कडङ्करीयो गौः, कडङ्कर्यः। दक्षिणामर्हति दक्षिणीयो भिक्षुः, दक्षिण्यो ब्राह्मणः। दक्षिणशब्दस्य अल्पाच्तरस्य अपूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासङ्ख्याभावं सूचयति।
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
'कडङ्करमर्हति' तथा 'दक्षिणामर्हति' एतयोः अर्थयोः 'कडङ्कर' तथा 'दक्षिण' शब्दात् छ-यत्-प्रत्ययौ भवतः । यथा -
'कडङ्कर' इत्युक्ते धेनवे दीयमानम् खाद्यम् । कडङ्करमर्हति सः कडङ्करीयः कडङ्कर्यः वा गौः ।
'दक्षिणा' इत्युक्ते पूजादिकर्मणि ब्राह्मणाय दीयमानम् धनम् । दक्षिणामर्हति सः दक्षिणीयः दक्षिण्यः भिक्षुः ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'कडङ्करदक्षिण' इति पुंलिङ्गशब्दः समाहारद्वन्द्वेन जायते - कडङ्करश्च दक्षिणा च तयोः समाहारःकडङ्करदक्षिणः । यद्यपि समासान्ते अत्र 'दक्षिण' इति पुंलिङ्गः शब्दः दृश्यते, तथाप्यत्र प्रातिपदिकम् 'दक्षिणा' इति अस्ति, 'दक्षिण' इति न , इति स्मर्तव्यम् ।
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
कडङ्गरदक्षिणाच्छ च - कडङ्करदक्षिणाच्छ च । 'कडमदे' कडनं कडः=मजः ।घञर्थे कविधान॑मिति कः । खजिति । तथा चखित्यनव्ययस्ये॑ति मुमिति भावः । कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी ।
index: 5.1.69 sutra: कडङ्करदक्षिणाच्छ च
'कड मदे' , कडतीति कडः, कडं करोतीत्यत एव निपातनात्खच्, कडङ्करं माषमुद्गादिकाष्ठमुच्यते। दक्षेरुत्साहकर्मणः करणे'दुदक्षिभ्यामिनन्' इतीनन्प्रत्ययः - दक्षिणा। चकाराद्यच्येति। घÄस्त्वनन्तरोऽपि न समुच्चीयते, य एव; स्वरितत्वात्। कडङ्करीय इति। यो बलीवर्हो दुर्जरमपि कडङ्करं जरयितुं प्रभावति स तदर्हतदीत्यच्यते। अल्पाच्चस्स्येत्यादि। यद्धा - यथासंख्येऽभिप्रेते यस्माद्यदिष्टः, तं दण्डादिषु पठ्ंअत् ॥