6-3-53 पद् यति अतदर्थे उत्तरपदे पादस्य
यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्॥ पद्भाव इके चरतावुपसंख्यानम्॥ पादाभ्यां चरति पदिकः। <<पर्पादिभ्यः ष्ठन्>>४.४.१० इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह इष्यते। तेन <<पणपादमाषशताद् यत्>> ५.१.३४ इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्॥
पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च <{SK1093}> इति यत् ।<!इके चरतावुपसंख्यानम् !> (वार्तिकम्) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥
<<पद् यत्यतदर्थे>> - पद्यत्य । पद — यति — अतदर्थे इति च्छेदः । पद्या इति । विध्यत्यधनुषेति यत्प्रत्ययः । पाद्यमिति ।पादार्घाभ्यां चे॑ति तादर्थ्ये यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः ।
इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्तिकादर्शनात्पर्पादिषु पादः पच्चेति पठितम् । शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवत इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो एविहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ॥