कालाद्यत्

5-1-107 कालात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्राप्तम्

Sampurna sutra

Up

'तत् अस्य प्राप्तम्' (इति) कालात् यत्

Neelesh Sanskrit Brief

Up

'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् यत् प्रत्ययः भवति ।

Kashika

Up

कालशब्दाद् यत् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। कालः प्राप्तोऽस्य काल्यस्तापः। काल्यं शीतम्॥

Siddhanta Kaumudi

Up

कालः प्राप्तोऽस्य काल्यं शीतम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

प्रथमासमर्थात् 'काल'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य कालः प्राप्तः' तस्य निर्देशं कर्तुम् यत् प्रत्ययः भवति । यथा - कालः प्राप्तः अस्य तत् काल्यम् शीतम्, काल्यः तापः, काल्या वर्षा ।

Balamanorama

Up

<<कालाद्यत्>> - कालाद्यत् । तदस्य प्राप्तमित्येव । प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा ।

Padamanjari

Up

काल्यस्ताप इति। प्रातःकाले काल्यशब्दस्य व्युत्पत्यन्तरं मृग्यम् ॥