ऋतोरण्

5-1-105 ऋतोः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्राप्तम्

Sampurna sutra

Up

'तत् अस्य प्राप्तम्' इति ऋतोः अण्

Neelesh Sanskrit Brief

Up

'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'ऋतु'शब्दात् अण् प्रत्ययः भवति ।

Kashika

Up

तदस्य प्राप्तमित्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थेऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये। ऋतुः प्राप्तोऽस्य आर्तवं पुष्पम्॥ तदस्य प्रकरण उपवस्त्रादिभ्य उपसंख्यानम्॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम्॥

Siddhanta Kaumudi

Up

ऋतुः प्राप्तोऽस्य आर्तवम् ॥ <!उपवस्त्रादिभ्य उपसंख्यानम्!> (वार्तिकम्) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

प्रथमासमर्थात् 'ऋतु'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य ऋतुः प्राप्तः' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति । यथा, ऋतुः प्राप्तः अस्य पुष्पस्य तत् आर्तवम् पुष्पम् (The flower that is about to blossom - इत्यर्थः) । प्रक्रिया इयम् - ऋतु + अण् → आर्तु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः । ऋकारस्य वृद्धिः आकारः, स च <<उरण् रपरः>> 1.1.51 इति रपरः] →> आर्तो + अ [<<ओर्गुणः>> 6.4.146 इति गुणः] → आर्तव [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] ज्ञातव्यम् - अस्मिन् सूत्रे 'ऋतु' इत्यनेन शब्दस्वरूपम् गृह्यते, न हि ऋतुवाचकः शब्दः (यथा वसन्त-ग्रीष्मादयः) । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानम्!> । इत्युक्ते, 'तदस्य प्राप्तम्' अस्मिन् अर्थे 'उपवस्तृ', 'प्राशितृ' एताभ्यामपि अण्-प्रत्ययः भवति । उपवस्ता (यः उपवासं करोति सः) प्राप्तः अस्य उपवासस्य सः औपवस्त्रः उपवासः (A convoluted way of saying that the 'fast' has obtained its doer). । प्राशिता (यज्ञे देवाय दीयमानः अंशः) प्राप्तः अस्य सः प्राशित्रः यज्ञः ।

Balamanorama

Up

<<ऋतोरण्>> - ऋतोरण् । प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तादृतोरणित्यर्थः । आर्तवमिति । अणि ओर्गुणः, आदिवृद्धिः । रपरत्वम् ।

Padamanjari

Up

तपवस्ता प्राप्तोऽस्तेति। उपवत्साऊपवासस्य कर्ता स प्राप्तोऽस्य औपवस्त्रमूपवासः, प्राशित्रमुब्रह्मभागः ॥