प्रतिजनादिभ्यः खञ्

4-4-99 प्रतिजनादिभ्यः खञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

'तत्र साधुः' इति प्रतिजनादिभ्यः संज्ञायाम् खञ्

Neelesh Sanskrit Brief

Up

'साधुः' अस्मिन् अर्थे प्रतिजनादिगणस्य शब्देभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति ।

Kashika

Up

प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुरित्येतस्मिन्नर्थे। यतोऽपवादः। प्रतिजने साधुः प्रातिजनीनः। जनेजने साधुरित्यर्थः। ऐदंयुगीनः। सांयुगीनः॥ प्रतिजन। इदंयुग। संयुग। समयुग। परयुग। परकुल। परस्यकुल। अमुष्यकुल। सर्वजन। विश्वजन। पञ्चजन। महाजन। प्रतिजनादिः। यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक् क्रीतीया बाध्यन्ते॥

Siddhanta Kaumudi

Up

प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे प्रतिजनादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति । प्रतिजनादिगणः अयम् - प्रतिजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, पञ्चजन, महाजन । उदाहरणानि - 1. जनम् जनम् प्रतिजनम् । प्रतिजने साधुः सः प्रतीजनीनः । प्रतिजन + खञ् → प्रतिजन + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति खकारस्य ईन्-आदेशः] → प्रातिजन + ईन [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → प्रातिजन् + ईन [<<यस्येति च>> 6.4.148 इति अकारलोपः] → प्रातिजनीन प्रत्येकम् जनम् प्रति (व्यवहारे) यः कुशलः, सः प्रातिजनीनः उच्यते । 2. इदंयुगे साधुः ऐदंयुगीनः । अस्मिन् युगे (भिन्नेषु कर्तव्येषु) यः प्रवीणः सः ऐदंयुगीनः । 3. परयुगे साधुः पारयुगीणः । 4. विश्वजने साधुः वैश्वजनीनः । 5. महाजने साधुः माहाजनीनः ।

Balamanorama

Up

<<प्रतिजनादिभ्यः खञ्>> - प्रतिजनादिभ्यः खञ् । तत्र साधुरित्येव । सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ।प्रतिजन॑मिति वीप्सायामव्ययीभावः । तत्र साधुरित्यर्थः । एवं-वैआजनीनः ।

Padamanjari

Up

जनं जनं प्रति प्रतिजनमिति'यथार्थे -यदव्ययम्' इति वीप्सायामव्ययीभावः । प्रतिजने साधुरिति ।'तृतीयासमप्तम्योर्वहुलम्' । परस्यकुलम्, अमुष्यकुलमिति । षष्ठीसमासेऽस्मादेव निपातनात षष्ठ।ल अलुक् । पूर्वसूत्र उक्तम् -'साधुः प्रवीणो योग्यो वा गृह्यते, नोपकारकः' , तत्र प्राक्क्रीतीयानामेवेष्टत्वादिति, इह तु न तथेत्याह - यत्रेति । प्राक्क्रीतीया बाध्यन्ते इति । अप्राप्तिरत्र बाधः; न हि चतुर्थ्यन्ताद्विधीयमानानां सप्तम्यन्तेभ्यः प्राप्तिरस्ति । तत्र प्राक्क्रीतीया न भवन्तीति वक्तव्ये बाध्यत इत्युक्तम् -'चतुर्थ्यन्तेभ्यो' प्यनभिधानात्प्राक्क्रीतीया न भवन्तिऽ इति दर्शयितुम् ॥