4-4-100 भक्तात् णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
'तत्र साधुः' इति भक्तात् संज्ञायाम् णः
'साधुः' इत्यस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त' (पक्वः ओदनः) शब्दात् संज्ञायाः विषये ण-प्रत्ययः भवति ।
भक्तशब्दाद् णः प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। भक्ते साधुर्भाक्तः शालिः। भाक्तास्तण्डुलाः॥
भक्ते साधवो भाक्ताः शालयः ॥
'भक्त' इत्युक्ते पक्वः ओदनः (cooked rice) । 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त'शब्दात् ण-प्रत्ययः भवति - भक्ते साधुः = भक्त + ण → भक्त + अ [इत्संज्ञालोपः] → भाक्त + अ [<<तद्धितेष्वचामादेः>> 7.2.117 आदिवृद्धिः] → भाक्त् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → भाक्त भक्ते साधुः भाक्ताः तण्डुलाः । ते तण्डुलाः येषु उत्तमाः गुणाः सन्ति, येभ्यः पक्व-ओदनस्य निर्माणम् भवितुमर्हति, ते तण्डुलाः 'भाक्ताः' नाम्ना ज्ञायन्ते । स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः विधीयते । भक्ते साधुः भाक्ता यवागूः ।
<<भक्ताण्णः>> - भक्ताण्णः । सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः ।
भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥