हलसीराट्ठक्

4-4-81 हलसीरात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति

Sampurna sutra

Up

index: 4.4.81 sutra: हलसीराट्ठक्


'तत् वहति' इति हलसीरात् ठक्

Neelesh Sanskrit Brief

Up

index: 4.4.81 sutra: हलसीराट्ठक्


'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'हल'शब्दात् 'सीर'शब्दात् च ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.81 sutra: हलसीराट्ठक्


तद्वहति इत्येव। हलसीरशब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हलं वहति हालिकः। सैरिकः।

Siddhanta Kaumudi

Up

index: 4.4.81 sutra: हलसीराट्ठक्


हलं वहति हालिकः । सैरिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.81 sutra: हलसीराट्ठक्


'हल' तथा 'सीर' एते द्वे कृषिकार्ये प्रयुक्ते साधने । एतयोः विषये 'वहति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

  1. हलम् वहति सः = हल + ठक् → हालिक ।

  2. सीरम् वहति सः = सीर + ठक् → सैरिक ।

ज्ञातव्यम् - वस्तुतः 'हलम् वहति सः' = 'हलस्य वोढा' इति स्थिते तस्येदम् 4.3.120 इत्यत्र पाठितेन हलसीराट्ठक् 4.3.124 इत्यनेन अपि 'हल'शब्दात् सीर'शब्दात् च ठक्-प्रत्ययः क्रियते । तर्हि वर्तमानसूत्रेण पुनः ठक्-प्रत्ययः किमर्थम् दीयते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् पदमञ्जरीकारः वदति - 'आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुक् न भवतीति' । इत्युक्ते, अत्र ठक्-प्रत्ययस्य पुनर्ग्रहणम् तदन्तविधेः निदर्शनार्थम् क्रियते - येन 'द्वौ हलौ वहति', 'त्रीन् सीरान् वहति' - इत्यत्रापि 'तत् वहति' अस्मिन् अर्थे वर्तमानसू्त्रेण ठक्-प्रत्ययः स्यात् । यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि 'द्वौ हलौ वहति सः' इत्यस्य स्थाने 'द्वयोः हलयोः वोढा' इति परिवर्तनं कृत्वा तस्येदम् 4.3.120 इत्यनेन ठक्-प्रत्ययविधानमभविष्यत्, यस्य अग्रे द्विगोर्लुगनपत्ये 4.1.88 इत्यनेन लुक् अप्राप्स्यत, येन भिन्नं रूपम् ('द्विहल') इति अजनिष्यत । परन्तु अत्र 'द्वैहलिक' इति रूपम् इष्यते, अतः वर्तमानसूत्रमत्र आवश्यकमस्ति ।'द्वयोः हलयोः वोढा' इत्यस्य विषये तु तस्येदम् 4.3.120 इत्यनेन ठक्-प्रत्ययविधानम् कृत्वा अग्रे द्विगोर्लुगनपत्ये 4.1.88 इत्यनेन लुकं कृत्वा 'द्विहल' इत्येव सिद्ध्यति । इत्युक्ते, द्वयोः हलयोः वोढा = द्विहलः , परन्तु द्वे हले वहति सः द्वैहलिकः । एतादृशम् एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति ।

स्मर्तव्यम् - 'द्वयोः हलयोः वोढा' उत 'द्वे हले वहति' - उभयत्र अपि तद्धितार्थः द्विगुः समासः क्रियते । इत्युक्ते, 'द्विहल' शब्दस्य निर्माणम् तद्धितप्रक्रियायाम् एव भवति, प्रारम्भे न । केवलम् अस्यां स्थितौ एव द्वयोः अर्थयोः भिन्नरूपे जायेते । परन्तु 'द्विहलस्य वोढा' / द्विहलं वहति' इति वाक्ये स्वीकुर्मश्चेत् अत्र द्विगुसमासः प्रारम्भे एव कृतः अस्ति - अतः अयं समाहार-द्विगुः अस्ति, न हि तद्धितार्थः द्विगुः । अस्य विषये तु तस्येदम् 4.3.120 इत्यस्य प्रयोगे द्विगोर्लुगनपत्ये 4.1.88 इत्यस्य प्रसक्तिः न विद्यते - अतः 'द्विहलस्य वोढा' / द्विहलं वहति' उभयत्र 'द्वैहलिक' एतदेव रूपम् सिद्ध्यति ।

संक्षेपेण -

1) हलस्य वोढा हालिकः । हलं वहति सः हालिकः । अत्र द्वयोः अर्थयोः समानं रूपं जायते ।

2) द्विहलस्य वोढा द्वैहलिकः । द्विहलं वहति सः द्वैहलिकः । अत्रापि द्वयोः अर्थयोः समानं रूपं जायते ।

3) द्वयोः हलयोः वोढा द्विहलः । द्वे हले वहति सः द्वैहलिकः । अत्र द्वयोः रूपयोः भेदं द्रष्टुं शक्यते ।

Balamanorama

Up

index: 4.4.81 sutra: हलसीराट्ठक्


हलसीराट्ठक् - हलसीराट्ठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः ।

Padamanjari

Up

index: 4.4.81 sutra: हलसीराट्ठक्


इह यो हलं वहति सरआआ च तस्यासौ वोढा भवति, तत्र तस्येदं हलसीराट्ठगित्येव हालिकः सौरिक इति सिद्धम्, नार्थोऽनेन ? अत्राहुः - आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुङ् न भवतीति ॥