4-4-80 शकटात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति
index: 4.4.80 sutra: शकटादण्
'तत् वहति' इति शकटात् अण्
index: 4.4.80 sutra: शकटादण्
'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् शकटशब्दात् अण्-प्रत्ययः भवति ।
index: 4.4.80 sutra: शकटादण्
तद्वहति इत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे अण् प्रत्ययो भवति। शकटम् वहति शाकटो गौः।
index: 4.4.80 sutra: शकटादण्
शकटं वहति शाकटो गौः ॥
index: 4.4.80 sutra: शकटादण्
'शकटम् वहति सः' अस्मिन् अर्थे शकटशब्दात् अण्-प्रत्ययः विधीयते । शकटम् वहति सः = शकट + अण् → शाकटः गौः ।
ज्ञातव्यम् - 'शकटम् वहति सः = शकटस्य वाहकः' इति प्राप्ते तस्येदम् 4.3.120 इत्यनेन अण्-प्रत्ययः पूर्वमेव प्राप्तः अस्ति । अतः अत्र अण्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् तत्वबोधिन्यामुच्यते - 'आरम्भसामर्थ्यात् अत्र तदन्तविधिः। तेन द्वे शकटे वहति इत्यत्र द्विगोर्लुगनपत्ये 4.1.88 इति प्राग्दीव्यतीयो लुक् न भवति, तस्येदम् 4.3.120 इति अणि तु स्यादेव लुगिति' । इत्युक्ते, अस्मिन् सूत्रे 'अण्' प्रत्ययस्य पुनर्विधानम् तदन्तविधिम् दर्शयति । अतः 'द्वे शकटे वहति' इत्यत्र 'द्विशकट' इत्यस्मात् अपि अनेन सूत्रेण अण्-प्रत्ययः क्रियते, येन 'द्वैशकट' इति रूपं सिद्ध्यति । एवं न क्रियते चेत् किम् भवेत्? यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि 'द्वे शकटे वहति' = 'द्वयोः शकटयोः वोढा' इत्यत्र 'द्विशकट' इत्यस्मात् तस्येदम् 4.3.120 अस्मिन् अर्थे प्राग्दीव्यतः अण् 4.1.83 इत्यनेन अण्-प्रत्ययः भवेत्, यस्य अग्रे द्विगोर्लुगनपत्ये 4.1.88 इत्यनेन च लुक् प्राप्नुयात् । लुकि कृते च अन्तिमम् रूपम् 'द्विशकट' इत्येव स्यात् । परन्तु अण्-प्रत्यये कृते 'द्वैशकट' इति शब्दः अपि प्रयुज्यते, यत्र अण्-प्रत्ययस्य लुक् न क्रियते । अस्य रूपस्य सिद्ध्यर्थम् एव वर्तमानसूत्रम् विशिष्टरूपेण पाठितमस्ति । अतः यद्यपि 'शकटम् वहति' इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि 'द्वे शकटे वहति' इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव ।
'द्विशकटस्य वाहकः' इत्यत्र तु प्राग्दीव्यतः अण् 4.1.83 इत्यनेन अण्-प्रत्ययविधानम् कृत्वा द्विगोर्लुगनपत्ये 4.1.88 इति लुकि कृते 'द्विशकट' इत्येव रूपम् सिद्ध्यतीति स्मर्तव्यम् । इत्युक्ते, द्विशकटं वहति सः द्वैशकटः, परन्तु द्विशकटस्य वोढा सः द्विशकटः । अनेन प्रकारेण एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति ।
अतः अस्य सूत्रस्य निर्माणम् 'पाणिनिना सूत्रनिर्माणे कियता विस्तारेण चिन्तनम् कृतम्' अस्यैव ज्ञापकम् ।
index: 4.4.80 sutra: शकटादण्
शकटादण् - अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह — देवगारिक इति ।
index: 4.4.80 sutra: शकटादण्
शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ?'तस्येदम्' इत्यण् भविष्यति, यो हि शकट्ंअ वहति शकटस्यासौ वोढा भवति ? तत्राहुः - आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ॥