4-3-124 हलसीरात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। हलस्येदं हालिकम्। सैरिकम्॥
हालिकम् । सैरिकम् ॥
<<हलसीराट्ठक्>> - हलसीराट्ठक् । तस्येदमित्येव । हालिकं सैरिकमिति । हलस्येदं, सीरस्येगदमिति विग्रहः ।