4-4-79 एकधुरात् लुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति खः
index: 4.4.79 sutra: एकधुराल्लुक् च
'तत् वहति' इति एकधुरात् खः लुक् च
index: 4.4.79 sutra: एकधुराल्लुक् च
'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् एकधुरा-शब्दात् ख-प्रत्ययः भवति, तस्य च पक्षे लुक् भवति ।
index: 4.4.79 sutra: एकधुराल्लुक् च
तद् वहति इत्येव। एकधुराशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति। वचनसमार्थ्यात् पक्षे लुग् विधीयते। एकधुराम् वहति एकधुरीणः, एकधुरः।
index: 4.4.79 sutra: एकधुराल्लुक् च
एकधुरां वहति एकधुरीणः । एकधुरः ॥
index: 4.4.79 sutra: एकधुराल्लुक् च
'एकधुरा' (= एकः भारः) अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति, तस्य च लुक् भवति । अस्मिन् सूत्रे 'च' इति उच्यते अतः 'ख-प्रत्ययः अपि भवति, पक्षे च लुक् अपि भवति' इति अर्थः अत्र स्वीक्रियते । 'यदि अत्र नित्यम् लुक् अभविष्यत्, तर्हि चकारस्य प्रयोजनम् नास्ति' एतत् मत्वा लुग्विधानम् विकल्पेन क्रियते ।
यथा - एकधुरां वहति सः = एकधुरा + ख → एकधुरीण । पक्षे लुक् - एकधुरां वहति सः एकधुरः (लुक्तद्धितलुकि 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक् भवति।)
index: 4.4.79 sutra: एकधुराल्लुक् च
एकधुराल्लुक् च - एकधुराल्लुक् च । एकधुराशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः । एकधुर इति । एकधुरां वहतीत्यर्थः ।
index: 4.4.79 sutra: एकधुराल्लुक् च
एकधुरादिति निर्देशः सर्वधुरादित्यनेन व्याख्यातः । चकारेण खोऽनुकृष्यते, तेन स तावद्विधेयः, प्रत्ययादर्शनस्य च लुक् संज्ञा । न चान्योऽत्र प्रत्ययः, तेन खस्यैव लुग्विज्ञायते, तस्य यदि लुक् स्याच्चकारेणानुकृष्य विधानमनर्थकं स्यात् । एकधुराल्लुगिति वक्तव्यम्, लुक् स्वभावादनन्तरस्व खस्य प्राकरणिकस्य यतो वा विधिरनुमास्यते, तदाह - तस्य च तुग्भवतीति एकधुरीण इति । एकां धुरं वहतीति तद्धितार्थे समासः, तत्रोक्तोऽकारः समासान्तः, ततः खः ॥