ऋतोऽञ्

4-4-49 ऋतः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तस्य धर्म्यम्

Sampurna sutra

Up

index: 4.4.49 sutra: ऋतोऽञ्


'तस्य धर्म्यम्' (इति) ऋतः अञ्

Neelesh Sanskrit Brief

Up

index: 4.4.49 sutra: ऋतोऽञ्


'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् ऋकारान्तशब्दात् अञ्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.49 sutra: ऋतोऽञ्


ऋकारान्तात् प्रातिपदिकातञ् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। पोतुर्ध्र्म्यं पौत्रम्। औद्गात्रम्। नरच् च एति वक्तव्यम्। नरस्य धर्म्या नारी। विशसितुरिड्लोपश्च। विशसितुः धर्म्यम् वैशस्त्रम्। विभाजयितुर्णिलोपश्च। विभाजयितुर्ध्र्म्यम् वैभाजित्रम्।

Siddhanta Kaumudi

Up

index: 4.4.49 sutra: ऋतोऽञ्


यातुर्धर्म्यं यात्रम् ।<!नराच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ नरस्य धर्म्या नारी ।<!विशसितुरिड्लोपश्चाञ्च वक्तव्यः !> (वार्तिकम्) ॥ विशसितुर्धर्म्यं वैशस्त्रम् ।<!विभाजयितुर्णिलोपश्चाञ्च वाच्यः !> (वार्तिकम्) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.49 sutra: ऋतोऽञ्


ऋकारान्तशब्देभ्यः 'तस्य धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा -

  1. पोतुः धर्म्यम्

= पोतृ + अञ्

→ पौतृ + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पौत्र [इको यणचि 6.1.77 इति यणादेशः]

  1. यातुः धर्म्यम् = यातृ + अञ् → यात्र ।

  2. नुः धर्म्यम्

= नृ + अञ्

→ नार् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ नार

अत्र त्रीणि वार्त्तिकानि ज्ञातव्यानि -

  1. <!नराच्चेति वक्तव्यम्!> - नरशब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।नरस्य धर्म्यम् = नर + अञ् → नार । स्त्रीत्वे विवक्षिते टिड्ढाणञ्... 4.1.15 इति ङीप्-प्रत्ययं कृत्वा - नारी । नरस्य आचरणयोग्या या, सा नारी ।

(अस्मिन् विषये भाष्यकारः 'नृनराभ्यामञ् वचनम्' इति ब्रूते । परन्तु नृ-शब्दस्य विषये तु स्वयं सूत्रेणैव अञ्-प्रत्ययः भवति, अतः काशिकाकारः कौमुदीकारः च केवलम् 'नरात्' इति गृहीत्वा वार्त्तिकम् पाठयतः ।)

  1. <!विशसितुः इट् लोपः च!> - 'विशसितृ' शब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा 'विशसितृ' शब्दस्य इडागमस्य लोपः भवति । ('विशसितृ' शब्दः 'वि + शस्' धातोः 'तृच्' प्रत्यये कृते, प्रक्रियायाम् इडागमं च कृत्वा सिद्ध्यति । यः विशेषरूपेण शासनं करोति, सः विशसिता । अस्यैव शब्दस्य इडागमस्य अनेन वार्त्तिकेन लोपः उच्यते ) । विशसितुः धर्म्यम् = विशसितृ + अञ् → विशस्तृ + अञ् → वैशस्त्र । शासकस्य आचरणयोग्यम् इत्यर्थः ।

  2. <!विभाजयितुः णिलोपः च!> - 'विभाजयितृ' शब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा 'विभाजयितृ' शब्दस्य णिच्-प्रत्ययस्य लोपः भवति । ('विभाजयितृ'शब्दः 'वि + भाज्' धातोः णिच्-प्रत्ययं कृत्वा अग्रे तृच्-प्रत्ययं च कृत्वा सिद्ध्यति । यः विभाजनम् करोति सः विभाजयिता । अस्यां प्रक्रियायां विद्यमानस्य णिच्-प्रत्ययस्य अत्र लोपः उच्यते ) । विभाजयितुः धर्म्यम् = विभाजयितृ + अञ् → विभाजितृ + अञ् → वैभाजित्रम् । यः विभाजनं करोति, तस्य आचरणयोग्यम् तत् वैभाजित्रम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे सर्वेभ्यः ऋकारान्तशब्देभ्यः 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः उच्यते । परन्तु अण् महिष्यादिभ्यः 4.4.48 इत्यत्र महिष्यादिगणे 'होतृ'शब्दः अपि उक्तः अस्ति । अस्मात् शब्दात् अण्-प्रत्ययः भवेत् उत अञ्? अस्मिन् विषये विचारद्वयं वर्तते । केचन वदन्ति - महिष्यादिगणे निर्देशत्वात् होतृ-शब्दात् अण्-प्रत्ययः एव भवेत्, अञ् न । केचन अन्ये वदन्ति, 'ऋत्विक्' अस्मिन् अर्थे यः होतृशब्दः प्रयुज्यते तस्य महिष्यादिगणे निर्देशः क्रियते, अतः तस्मात् अण्-प्रत्ययः भवति, परन्तु अन्येषु अर्थेषु तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव विधीयते ।

Balamanorama

Up

index: 4.4.49 sutra: ऋतोऽञ्


ऋतोऽञ् - ऋतोऽञ् । ऋदन्तात्षष्ठन्ताद्धम्र्यमित्यर्थे अञित्यर्थः । नारीति । अञन्तत्वान्ङीबिति भावः । इड्लोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति । विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति । विभाजयितृशब्दादञि णिलोपः ।

Padamanjari

Up

index: 4.4.49 sutra: ऋतोऽञ्


होतुर्धर्म्यं हौत्रमिति । होतृशब्दस्य महिष्यादिषु पाठादपपाठोऽयम्, पोतुर्धम्यमिति तु पाठः । अपर आह - यजमानसाहचर्यादृत्विग्वचनस्य होतृशब्दस्य महिष्यादिषु पाठः, अयं तु क्रियाशब्द उदाहृत इति । नराच्चेति वक्तव्यमिति । नृशब्दात्सूत्रेणैवाञि नारमिति सिद्धे नरशब्दाट्ठको निवृत्यर्थं वचनम्, अनभिधानं तु दुर्ज्ञानम् ॥