4-4-48 अण् महिष्यादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तस्य धर्म्यम्
'तस्य धर्म्यम्' इति महिष्यादिभ्यः अण्
महिष्यादिगणस्य शब्दानां विषये 'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।
महिषीत्येवमादिभ्योऽण् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। महिष्या धर्म्यं माहिषम्। प्राजावतम्॥ महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः॥
महिष्या धर्म्यं माहिषम् । याजमानम् ॥
'महिष्यादि'गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् 'धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते । महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान । उदाहरणानि - 1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष । 2. प्रजावत्याः धर्म्यम् प्राजावतम् । 3. पुरोहितस्य धर्म्यम् पौरोहितम् । 4. यजमानस्य धर्म्यम् याजमानम् ।
<<अण् महिष्यादिभ्यः>> - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।