4-4-31 कुसीददशैकादशात् ष्ठन्चौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु प्रयच्छति गर्ह्यम्
'तत् गर्ह्यम् प्रयच्छति' (इति) कुसीद-दशैकादशात् ष्ठन्-ष्ठचौ
'गर्ह्यम् प्रयच्छति' अस्मिन् अर्थे 'कुसीद'शब्दात् ष्ठन्, तथा 'दशैकादश'शब्दात् ष्ठच्-प्रत्ययः भवति ।
प्रयच्छति गर्ह्यमित्येव। कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्। एकादशार्था दश दशैकादशशब्देनोच्यन्ते। कुसीददशैकादशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठच् इत्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यमित्येतस्मिन् विषये। ठकोऽपवादौ। कुसीदं प्रयच्छति कुसीदिकः। कुसीदिकी। दशैकादशिकः। दशैकादशिकी॥
गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥
'गर्ह्यम्' इत्युक्ते 'निन्द्यम् / धर्मशास्त्रविरुद्धम्' । 'प्रयच्छति' इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन धनम् दीयते, यत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् औत्सर्गिकरूपेण <<प्रयच्छति गर्ह्यम्>> 4.4.30 इत्यनेन ठक्-प्रत्यये प्राप्ते 'कुसीद' तथा 'दशैकादश' शब्दयोः विषये तं बाधित्वा क्रमशः ष्ठन् तथा ष्ठच् प्रत्ययौ भवतः । क्रमेण पश्यामः - 1. 'कुसीद' - 'कुसीद' इत्युक्ते वृद्ध्यर्थम् यत् दीयते तत् धनम् । कश्चन धनिकः यदि धर्मबाह्याम् वृद्धिम् प्राप्तुम् किञ्चन धनम् ऋणरूपेण ददाति, तर्हि तत् धनम् 'गर्ह्यम् कुसीदम्' नाम्ना ज्ञायते । एतस्यां स्थितौ धनिकस्य निर्देशं कर्तुम् कुसीद-शब्दात् ष्ठन्-प्रत्ययः क्रियते । कुसीदं गर्ह्यम् प्रयच्छति सः = कुसीद + ष्ठन् → कुसीदिक । 2. दशैकादश - यत्र दशमुद्राः ऋणरूपेण दत्त्वा एकादशमुद्राः व्याजरूपेण इष्यन्ते, तत्र दत्तं ऋणम् 'दशैकादश' नाम्ना ज्ञायते । ('एकादश च ते दश च ते दशैकादशाः' इति अयं शब्दः सिद्ध्यति ) । एतत् दशैकादशम् गर्ह्यम् (नियमबाह्यम्) अस्ति चेत् दातुः निर्देशं कर्तुमस्मात् ष्ठच्-प्रत्ययः भवति । दशैकादशम् गर्ह्यम् प्रयच्छति सः = दशैकादश + ष्ठच् → दशैकादशिक । ज्ञातव्यम् - 1. 'ष्ठन्' तथा 'ष्ठच्' - द्वयोः प्रत्यययोः षकारः इत्संज्ञकः अस्ति । अतः स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययः विधीयते । यथा - कुसीदं गर्ह्यम् प्रयच्छति सा = कुसीदिकी । दशैकादशम् गर्ह्यम् प्रयच्छति सा = दशैकादशिकी । 2. ष्ठन् प्रत्ययः 'नित्' अस्ति अतः 'कुसीदिक' शब्दस्य आदिस्वरः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन उदात्तः जायते । ष्ठच्-प्रत्ययः तु 'चित्' अस्ति, अतः 'दशैकादशिक' शब्दस्य अन्तिमस्वरः <<तद्धितस्य>> 6.1.164 इत्यनेन उदात्तः जायते ।
<<कुसीददशैकादशात् ष्ठन्ष्ठचौ>> - कुसीद । गह्र्रार्थाभ्यामिति । कुसीद, तदशैकादश — आभ्यां द्वितीयान्ताभ्यां गह्र्रार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात्ष्ठन्ष्ठचौ स्त इत्यर्थः । षित्त्वं ङीषर्थमित्याह — कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ष्ठच् प्रकृतिं दशैकादशशब्दं व्युत्पादयति — एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वादेकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारयेसङ्ख्याया अल्पीयस्या॑ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्खानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति — दशैकादशान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः ।
तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युतमर्णस्याभिधानमिष्यते, न चोतमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मातादर्थ्याताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृतेः सामानाधिकरण्ये सति विशेषणसमासः,'संख्याया अल्पीयस्याः' इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति - दशैकादशान्प्रयच्छतीति ॥