मुद्गादण्

4-4-25 मुद्गात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संसृष्टे

Sampurna sutra

Up

'तेन संसृष्टे' इति मुद्गात् अण्

Neelesh Sanskrit Brief

Up

'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् मुद्गशब्दात् अण्-प्रत्ययः भवति ।

Kashika

Up

मुद्गशब्दादण् प्रत्ययो भवति संसृष्ट इत्येतस्मिन् विषये। ठकोऽपवादः। मौद्ग। ओदनः। मौद्गी यवागूः॥

Siddhanta Kaumudi

Up

मौद्ग ओदनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'मुद्गाः' सन्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'मुद्ग'शब्दात् अण्-प्रत्ययः क्रियते । यथा - मुद्गैः संसृष्टः मौद्गः ओदनः । प्रक्रिया - मुद्ग + अण् → मौद्ग + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → मौद् ग् + अ [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → मौद्ग । ज्ञातव्यम् - स्त्रीत्वे विवक्षिते <<टिड्ढाण्..>> 4.1.15 अनेन सूत्रेण अत्र ङीप्-प्रत्ययः विधीयते । यथा - मुद्गैः संसृष्टा 'मौद्गी' यवागूः ।

Balamanorama

Up

<<मुद्गादण्>> - मुद्गादण् ।तेन संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । मौद्ग ओदन इति । मुद्गैः संसृष्ट इत्यर्थः ।

Padamanjari

Up