4-4-24 लवणात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संसृष्टे
index: 4.4.24 sutra: लवणाल्लुक्
'तेन संसृष्टे' इति लवणात् लुक्
index: 4.4.24 sutra: लवणाल्लुक्
'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात लवणशब्दात् विहितस्य प्रत्ययस्य लुक् भवति ।
index: 4.4.24 sutra: लवणाल्लुक्
संसृष्टे 4.3.22 इत्यनेन उत्पन्नस्य ठको लवणशब्दाल् लुक् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची।
index: 4.4.24 sutra: लवणाल्लुक्
लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥
index: 4.4.24 sutra: लवणाल्लुक्
'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'लवणम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'लवण'शब्दात् संसृष्टे 4.4.22 इत्यनेन ठक्-प्रत्यये कृते वर्तमानसूत्रेण तस्य लुक् ( = लोपः) भवति । यथा, लवणेन संसृष्टम् = लवण + ठक् → लवण + X → लवण । लवणेन संसृष्टम् लवणम् शाकम्, लवणः सूपः ।
अस्मिन् विषये काशिकाकारः वदति - 'द्रव्यवाची' लवणशब्दः लुकं प्रयोजयति, न गुणवाची । इत्युक्ते, 'लवण' नाम यः पदार्थः अस्ति (common salt) तस्यैव निर्देशः अस्मिन् सूत्रे क्रियते, न हि 'लवण' इति रसस्य ।
index: 4.4.24 sutra: लवणाल्लुक्
लवणाल्लुक् - लवणाल्लुक् ।पूर्वसूत्रविहितस्ये॑ति शेषः ।
index: 4.4.24 sutra: लवणाल्लुक्
लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः -षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते - प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥