4-4-21 अपमित्ययाचिताभ्यां कक्कनौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन निर्वृत्ते
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
'तेन निर्वृत्ते' (इति) अपमित्य-याचिताभ्याम् कक्-कनौ
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
'निर्वृत्तम्' अस्मिन् अर्थे 'अपमित्य'शब्दात् कक्-प्रत्ययः, यथा 'याचित'शब्दात् कन्-प्रत्ययः भवति ।
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक् कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्।
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
'अपमित्य' इति 'अप + माङ्' इत्यस्य ल्यप्-प्रत्ययान्तरूपम् । 'व्यतिहारं / विनिमयं कृत्वा' इति तस्य अर्थः । 'याचित' इति 'याच' धातोः क्त-प्रत्ययान्तरूपम् । 'याचनां कृत्वा प्राप्तम्' इति तस्य अर्थः । 'अपमित्य' तथा 'याचित' एताभ्याम् शब्दाभ्याम् 'निर्वृत्तम्' अस्मिन् अर्थे क्रमेण कक् तथा कन्-प्रत्ययौ भवतः । यथा -
अपमित्य निर्वृत्तम् तत् = अपमित्य + कक् → आपमित्यक ।
याचितेन निर्वृत्तम् तत् = याचित + कन् → याचितक ।
ज्ञातव्यम् -
'अपमित्य' इति अव्ययमस्ति, अतः तस्मात् विहितस्य तृतीयायाः प्रत्ययस्य अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् भवति । अतएव विग्रहवाक्ये 'अपमित्य निर्वृत्तम्' इत्येव उच्यते ।
वस्तुतः 'याचित'शब्दात् कक्-प्रत्ययं कृत्वा अपि 'याचितक' इत्येव रूपं सिद्ध्यति । परन्तु स्वरविशेषं दर्शयितुम् 'कन्' इति नित्-प्रत्ययस्य विधानं क्रियते । ञ्नित्यादिर्नित्यम् 6.1.197 अनेन सूत्रेण 'नित्' प्रत्यये परे समुदायस्य आदिस्वरः उदात्तः जायते । यथा, कन्-प्रत्ययान्तस्य 'याचितक'शब्दस्य आदिस्वरः आकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । यदि अत्र 'कक्' प्रत्ययः अभविष्यत्, तर्हि कितः6.1.165 इत्यनेन समुदायस्य अन्तिमस्य स्वरस्य उदात्तत्वे प्राप्ते समुदायस्य आदिस्वरः अनुदात्तं पदमेकवर्ज्यम् 6.1.158 इत्यनेन अनुदात्तः अभविष्यत् । तत् तथा मा भूत्, इति निर्देशयितुम् कन्-प्रत्ययः अत्र प्रोच्यते ।
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
अपमित्ययाचिताभ्यां कक्कनौ - अपमित्ययाचिताभ्याम् । ल्यबन्धमिति । 'मेङ् प्रणिदाने' इत्यस्यमादिंवनिमयार्थकात्उदीचां माहो व्यतिहारे॑ इति क्त्वाप्रत्यये गतिसमासे ल्यपिमयतेरिदन्यतरस्या॑मिति इत्त्वेह्रस्वस्य पिती॑ति तुगागमे अपमित्येत्यव्ययम्, 'क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते ।
index: 4.4.21 sutra: अपमित्ययाचिताभ्यां कक्कनौ
अपमित्येति । ठुदीचां माङे व्यतिहारेऽ इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्,'मयतेरिदन्यतरस्याम्' इतीत्वम्,'क्त्वातोसुन्कसुनः' इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ॥