आयुधाच्छ च

4-4-14 आयुधात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन जीवति ठन्

Sampurna sutra

Up

'तेन जीवति' (इति) आयुधात् छः ठन् च

Neelesh Sanskrit Brief

Up

'जीवति' अस्मिन् अर्थे तृतीयासमर्थात् 'आयुध'शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।

Kashika

Up

आयुधशब्दाच् छप्रत्ययो भवति, चकारात् ठंश्च, जीवतीत्येतस्मिन् विषये। आयुधेन जीवति आयुधीयः। आयुधिकः॥

Siddhanta Kaumudi

Up

चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा - 1. आयुधेन जीवति = आयुध + ठन् → आयुध + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → आयुध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आयुधिक 2. आयुधेन जीवति = आयुध + छ → आयुध + ईय [<<आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन छकारस्य ईय्-आदेशः] → आयुध् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आयुधीय

Balamanorama

Up

<<आयुधाच्छ च>> - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः ।

Padamanjari

Up

आयुध्यतेऽनेनेति आयुधम्,'घञर्थे कविधानम्' इति कप्रत्ययः ॥