ख च

4-4-132 ख च ? प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मत्वर्थे वेशोयशादेः भगात् यल्

Sampurna sutra

Up

index: 4.4.132 sutra: ख च


वेशो-यश-आदेः भगात् मत्वर्थे छन्दसि संज्ञायाम् खः

Neelesh Sanskrit Brief

Up

index: 4.4.132 sutra: ख च


यस्य आदौ 'वेशस् '/ 'यशस्' अस्ति तथा च यस्य अन्ते 'भग' अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये ख-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.132 sutra: ख च


वेशोयशाऽदेर्भगान्तात् प्रातिपदिकात् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश्च। चकारात् यत्। वेशोभगीनः, वेशोभग्यः। यशोभगीनः, यशोभग्यः।

Siddhanta Kaumudi

Up

index: 4.4.132 sutra: ख च


योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.132 sutra: ख च


आदौ पदपरिचयः -

  1. 'मतुप्' इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते ।

  2. 'वेशस्' इत्युक्ते बलम् । 'यशस्' इत्युक्ते पराक्रमः । 'भग' इत्यस्य 'श्रीकाम', 'प्रयत्न', 'माहात्म्य', 'वीर्य', 'यशः' एते अर्थाः सन्ति ।

यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते 'भग' इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् वेशोयशआदेर्भगाद्यल् 4.4.131 इत्यनेन यल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण 'ख' प्रत्ययः अपि कृतः दृश्यते । यथा -

  1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + ख → वेशोभगीन ।

  2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + ख → यशोभगीन ।

ज्ञातव्यम् - यदि वेशोयशआदेर्भगाद्यल् 4.4.131 इत्यत्रेव ख-प्रत्ययस्य विधानम् क्रियेत तर्हि 'यथासङ्ख्यत्वात्' 'वेशादि'शब्दात् यल्-प्रत्ययविधानम् तथा च 'यशादि'शब्दात् ख-प्रत्ययविधानम् भवेत् । परन्तु अत्र उभाभ्यामपि शब्दाभ्यामाचार्यः द्वावपि प्रत्ययौ पाठयितुम् इच्छति । अतएव ख-प्रत्ययविधानार्थम् 'ख च' इति भिन्नसूत्रस्य निर्माणम् कृतमस्ति ।

Padamanjari

Up

index: 4.4.132 sutra: ख च


योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च -'यथासंख्यामनुदेशः समानाम्' प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥