मधोर्ञ च

4-4-129 मधोः ञ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मत्वर्थे

Sampurna sutra

Up

मत्वर्थे मधोः छन्दसि संज्ञायाम् ञः यत् च

Neelesh Sanskrit Brief

Up

मत्वर्थे मधु-शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते ।

Kashika

Up

मधुशब्दाद् मत्वर्थे ञः प्रत्ययो भवति चकाराद् यत् च। उपसंख्यानात् लुक् च। माध॑वः (तै०सं०१.४.१४.१)। मध॒व्यः॑ (तै०सं०५.२.९.३)। मधुः॑ (तै०सं०१.४.१४.१)। तन्वां खल्वपि — माधवा, मधव्या, मधुः तनूः॥

Siddhanta Kaumudi

Up

माधवः । मधव्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । अस्मिन् अर्थे 'मधु'शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते । 1. मधु अस्ति अस्मिन् सः = मधु + ञ → माधु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → माधो + अ [<<ओर्गुणः>> 6.4.146 इति गुणः] → माधव् + अ [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → माधव स्त्रीत्वे विवक्षिते - <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते - माधवा तनूः । 2. मधु अस्ति अस्मिन् सः = मधु + यत् → मधो + य [<<ओर्गुणः>> 6.4.146 इति गुणः] → मधव् + य [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → मधव्य स्त्रीत्वे विवक्षिते - <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते - मधव्या तनूः । यथा - (तैत्तिरीयसंहिता 1.4.14.1) 'मधुश्च माधवश्च शुक्रश्च शुचिश्च...' । अत्र विद्यमानस्य माधव-शब्दस्य व्युत्पत्तिः अनेन सूत्रेण दातुं शक्यते । ज्ञातव्यम् - 1. अस्य सूत्रस्य विषये काशिकाकारः वदति - 'उपसङ्ख्यानात् लुक् च' । इत्युक्ते, मधु-शब्दस्य विषये मत्वर्थे प्रत्ययस्य लुक् अपि कृतः दृश्यते । एतत् क्रियते चेत् - 'मधु अस्ति अस्मिन् सः मधुः' इति सिद्ध्यति 2. <<मत्वर्थे मासतन्वोः>> 4.4.128 इत्यस्मात् अस्मिन् सूत्रे 'मत्वर्थे' इत्येव अनुवर्तते, 'मासतन्वोः' इति न । अतः अस्य सूत्रस्य प्रसक्तिः अन्यत्र (मास-विषयकः तनू-विषयकः अर्थः न विद्यते चेदपि) भवितुमर्हति ।

Balamanorama

Up

Padamanjari

Up

अत्रापि भाषायां मधुयोगान्मासो मधुः, तस्य प्रज्ञादिषु पाठादाद्यौदातत्वम् ॥