ओजसोऽहनि यत्खौ

4-4-130 ओजसः अह्नि यत्खौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मत्वर्थे

Sampurna sutra

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


ओजसः अहनि मत्वर्थे छन्दसि संज्ञायाम् यत्-खौ

Neelesh Sanskrit Brief

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


प्रथमासमर्थात् ओजस्-शब्दात् मत्वर्थे अहनि अभिधेये वेदेषु संज्ञायाः विषये यत्-प्रत्ययः तथा ख-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


मत्वर्थे इत्येव। ओजःशदान् मत्वयर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये। ओजस्यमहः। ओजसीनमहः।

Siddhanta Kaumudi

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


ओजस्यमहः । ओजसीनं वा ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


'मतुप्' इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । अस्मिन् अर्थे ओजस्-शब्दात् अहन् (= दिवसः) अस्य निर्देशार्थम् संज्ञायाः विषये 'यत्' तथा 'ख' प्रत्ययौ भवतः ।

  1. ओजः अस्मिन् अहनि वर्तते सः ओजस्यम् अहः । ओजस् + यत् → ओजस्य ।

  2. ओजः अस्मिन् अहनि वर्तते सः ओजसीनम् अहः । प्रक्रिया इयम् -

ओजस् + ख

→ ओजस् +ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति खकारस्य ईन्-आदेशः]

→ ओजसीन

उदाहरणम् - (तैत्तिरीयसंहिता 4.4.12.1) - 'उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना' ।

ज्ञातव्यम् - अस्मिन् सूत्रे आचार्यः 'यत्' प्रत्ययस्य स्पष्टरूपेण निर्देशं करोति । अत्र अयं प्रश्नः उपतिष्ठते यत् 'ओजसोऽहनि ख च' इति उच्यते चेदपि औत्सर्गिकरूपेण यत्-प्रत्ययः भवेदेव किल? अस्य प्रश्नस्य समाधानम् न्यासकारेण उच्यते - 'नैवं शक्यम्; चकारेण हि सन्देहः स्यात् -किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते, अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्' । इत्युक्ते, यदि केवलं 'च' इति उच्येत, तर्हि पूर्वसूत्रात् 'ञ' इति अनुवर्तनीयः उत 'यत्' इति स्वीकर्तव्यः इति सन्देहः जायेत । अतएव अत्र आचार्यः स्पष्टरूपेण 'यत्' इति निर्देशयति ।

Padamanjari

Up

index: 4.4.130 sutra: ओजसोऽहनि यत्खौ


यद्ग्रहणमनर्थकम्,'खश्च' इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्;'खश्च' इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ॥