सगर्भसयूथसनुताद्यन्

4-4-114 सगर्भसयूथसनुतात् यन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

'तत्र भवे' (इति) सगर्भ-सयूथ-सनुतात् छन्दसि संज्ञायाम् यन्

Neelesh Sanskrit Brief

Up

'भवः' अस्मिन् अर्थे सप्तमीसमर्थेभ्यः 'सगर्भ', 'सयूथ', 'सनुत' शब्देभ्यः वेदेषु संज्ञायाः विषये यन्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं०४.२०)। अनु॒ सखा॒ सयू॑थ्यः (तै०सं०१.२.४.२)। यो नः॒ सनु॑त्यः (ऋ०२.३०.९)। सर्वत्र <<समानस्य छन्दस्य०>> ६.३.८४ इति सभावः॥

Siddhanta Kaumudi

Up

अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः -<{SK3090}> । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि <{SK1012}> इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'सगर्भः' (= समानः गर्भः), 'सयूथ' (समानः समूहः), 'सनुत' (समाना देवता) - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः 'भवः' अस्मिन् अर्थे संज्ञायाः विषये वेदेषु 'यन्' प्रत्ययः कृतः दृश्यते । यथा - 1. सगर्भे भवः = सगर्भ + यन् → सगर्भ्य । अनुजः इत्यर्थः । यथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । 2. सयूथे भवः = सयूथ + यन् → सयूथ्य । सखा इत्यर्थः । यथा - यथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । 3. सनुते भवः = सनुत + यन् → सनुत्य । समानदेवतायाः भक्तः इत्यर्थः । यथा - ऋग्वेदे 2.30.9 - यो न सनुत्य उत वा जिघत्नु रभिख्याय तं तिगितेन विध्य । ज्ञातव्यम् - वस्तुतः अत्र 'यत्' प्रत्ययस्य अधिकारः प्रचलति । परन्तु तम् बाधित्वा अत्र यन्-प्रत्ययविधानम् कृतमस्ति । द्वयोः प्रत्यययोः योजनेन रूपम् तु समानमेव जायते, परन्तु द्वयोः रुपयोः मध्ये स्वरभेदः अस्ति । 'यन्' प्रत्ययान्तशब्दः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्तत्वं प्राप्नोति, परन्तु यत्-प्रत्ययान्तशब्दस्य विषये तु <<तित्स्वरितम्>> 6.1.185 इत्यनेन प्रत्ययस्वरस्य स्वरितत्वम् इष्यते (येन आदिस्वरः अनुदात्तः विधीयते) ।

Balamanorama

Up

Padamanjari

Up

ठर्तिगृभ्यां भन्ऽ, गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्यूथम्,'तिथपृष्ठगूथयूथप्रोथाः' इति क्थन्प्रत्ययान्तो निपातितः । नुतिर्नुतम्,'नपुंसके भावे क्तः' । सगर्भादयस्त्रयोऽपि कर्मधारयाः ॥