सभाया यः

4-4-105 सभायाः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

'तत्र साधुः' (इति) सभायाः संज्ञायाम् यः

Neelesh Sanskrit Brief

Up

सप्तमीसमर्थात् 'सभा'शब्दात् संज्ञायाः विषये 'य' प्रत्ययः भवति ।

Kashika

Up

सभाशब्दाद् यःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। सभायां साधुः सभ्यः॥

Siddhanta Kaumudi

Up

सभ्यः ॥

Laghu Siddhanta Kaumudi

Up

सभ्यः ॥ इति यतोऽवधिः ॥ ८ ॥

Neelesh Sanskrit Detailed

Up

'साधुः' इत्युक्ते योग्यः, प्रवीणः । सप्तमीसमर्थात् 'सभा' शब्दात् 'साधुः' अस्मिन् अर्थे संज्ञायाः विषये 'य'-प्रत्ययः भवति । सभायां साधुः = सभा + य → सभ् + य [<<यस्येति च>> 6.4.148 इति आकारलोपः] → सभ्य । सभायाम् साधुः सभ्यः । सभायाम् भाषणे वर्तने व्यवहारे च यः प्रवीणः, सः सभ्यः पुरुषः । ज्ञातव्यम् - वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सभ्य'शब्दः <<यतोऽनावः>> 6.1.213 इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सभ्य'शब्दः <<आद्युदात्तश्च>> 3.1.3 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (<<आद्युदात्तश्च>> 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सभ्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सभ्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) ।

Balamanorama

Up

Padamanjari

Up