ढश्छन्दसि

4-4-106 ढः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः सभायाः

Sampurna sutra

Up

'तत्र साधुः' (इति) सभायाः छन्दसि संज्ञायाम् ढः

Neelesh Sanskrit Brief

Up

'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये 'ढ'प्रत्ययः भवति ।

Kashika

Up

सभाशब्दाद् ढःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये छन्दसि। यस्याऽपवादः। स॒भेयो॒ युवास्य॒ यज॑मानस्य वी॒रो जा॑यताम् (मा०सं०२२.२२)॥

Siddhanta Kaumudi

Up

सभेयो युवा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'साधुः' इत्युक्ते कुशलः, प्रवीणः, योग्यः । सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये ढ-प्रत्ययः अपि कृतः दृश्यते । यथा, शुक्लयजुर्वेदे 22 तमे अध्याये 22 तमः श्लोके उच्यते - 'पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ' । अत्र प्रयुक्तः 'सभेयः' अयं शब्दः 'सभायां साधुः' अस्मिन् अर्थे प्रयुक्तः अस्ति । प्रक्रिया इयम् - सभायां साधुः = सभा + ढ → सभा + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय् -आदेशः] → सभ् + एय [<<यस्येति च>> 6.4.148 इति आकारलोपः] → सभेय । विशेषः - शुक्लयजुर्वेदस्य 22 तम-अध्यायस्य 22 तमः श्लोकः 'वैदिकम् राष्ट्रगीतम्' नाम्ना अपि प्रसिद्धः अस्ति । अयम् सम्पूर्णः श्लोकः अधः दत्तः अस्ति - आ ब्रह्यन्ब्राह्मणो ब्रह्मवर्चसी जायताम् । आ राष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायताम् । दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् । निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ शुक्लयजुर्वेदः 22.22 ॥

Balamanorama

Up

Padamanjari

Up