द्वन्द्वाच्छः

4-2-6 द्वन्द्वात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन नक्षत्रेण युक्तः कालः

Sampurna sutra

Up

'नक्षत्रेण युक्तः कालः' (इति) द्वन्द्वात् छः

Neelesh Sanskrit Brief

Up

'युक्तः कालः' अस्मिन् अर्थे नक्षत्रद्वन्द्वात् विशेषकालं अविशेषकालं च निर्देशयितुम् छ-प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'time occupied by a certain नक्षत्र', छ प्रत्यय can be attached to the word in तृतीया विभक्ति that indicates name of a नक्षत्रद्वन्द्व.

Kashika

Up

नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे चाविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे — अद्य राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते॥

Siddhanta Kaumudi

Up

नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'नक्षत्रद्वन्द्वम्' इत्युक्ते द्वयोः नक्षत्रयोः एकत्रग्रहणम् । यस्मिन् काले चन्द्रमाः एकस्मात् नक्षत्रात् अग्रिमनक्षत्रे प्रविशति, तस्य कालस्य निर्देशं नक्षत्रद्वन्द्वस्य साहाय्येन वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा - 1. राधया अनुराधया च युक्तमहः = राधानुराधा + छ → राधानुराधीयमहः / राधानुराधीया रात्रिः । (राधा = विशाखानक्षत्रम्) 2. तिष्येण पुनर्वसुना च युक्तः कालः = तिष्यपुनर्वसु + छ → तिष्यपुनर्वसवीयः अद्य । (तिष्य = पुष्यनक्षत्रम् ) ज्ञातव्यम् - 1. अनेन सूत्रेण उक्तः छ-प्रत्ययः विशेषकालस्य विषये अपि भवति, अविशेषकालस्य विषये अपि भवति । इत्युक्ते, अयं प्रत्ययः 'लुप्' इत्यस्यापि अपवादत्वेन आगच्छति । 2. एतत् नक्षत्रद्वन्द्वम् क्रमेण विद्यमानयोः नक्षत्रयोः एव भवेत्, यतः चन्द्रमाः क्रमेणैव नाक्षत्रमण्डलं भ्रमति ।

Balamanorama

Up

<<द्वन्द्वाच्छः>> - द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानुराधीयेति । रादेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः ।

Padamanjari

Up

नक्षत्रग्रहणमनुवृतं षष्ठ।ल्न्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह - नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । च्छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्च्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः -'मध्ये' पवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इति, एवमयं लुबण एव भवति, नास्य च्छस्य । तेनायं छाए लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ॥