खलगोरथात्

4-2-50 खलगोरथात् यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः यः

Sampurna sutra

Up

तस्य समूहः (इति) खल-गो-रथात् यः

Neelesh Sanskrit Brief

Up

'तस्य समूहः' अस्मिन् अर्थे 'खल', 'गो', तथा 'रथ' - एतेभ्यः शब्देभ्यः य-प्रत्ययः भवति ।

Neelesh English Brief

Up

The words खल, गो and रथ get the प्रत्यय 'य' to indicate the meaning of 'तस्य समूहः'.

Kashika

Up

खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठ उत्तरार्थः॥

Siddhanta Kaumudi

Up

खल्या । गव्या । रथ्या ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे खल, गो, रथ - एतेभ्यः य-प्रत्ययः विधीयते । यत्-प्रत्ययान्तशब्दाः प्रयोगवशात् केवलं स्त्रीलिङ्गे भवन्ति, अतः प्रक्रियायां स्त्रीत्वं द्योतयितम् टाप्-प्रत्ययस्य विधानमपि भवति । यथा - 1) खलानां समूहः = खल + य + टाप् → खल् + य + आ [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → खल्या 2) गवाम् समूहः गो + य + टाप् → गव् + य + आ [<<वान्तो यि प्रत्यये>> 6.1.79 इति ओ-इत्यस्य अव्-आदेशः] → गव्या 3) रथ + य + टाप् → रथ् + य [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → रथ्या ज्ञातव्यम् - वस्तुतः <<पाशादिभ्यो यः>> 4.3.36 इत्यनेन पाशादिगणस्य शब्दानां विषये य-प्रत्ययविधानं कृतमस्ति । अतः अस्मिन् सूत्रे निर्दिष्टानां त्रयाणां शब्दानाम् पाशादिगणे एव किमर्थम् समावेशः न क्रियते (नूतनसूत्रनिर्माणं किमर्थम् कृतम्) - इति प्रश्नः आगच्छति । तस्य उत्तरार्थम् काशिकाकारः वदति - 'पाशादिषु अपाठः उत्तरार्थः' । इत्युक्ते, अग्रिमसूत्रे केवलं एतेषाम् त्रयाणामेव अनुवृत्तिः करणीया, अतः तेषाम् निर्देशः भिन्नसूत्रेण कृतः अस्ति ।

Balamanorama

Up

<<खलगोरथात्>> - खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गव्य रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः ।

Padamanjari

Up

अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह - पाशादिष्वपाठ इति ॥