वत्सशालाभिजिदश्वयुक्छतभिषजो वा

4-3-36 वत्सशालाभिजिदश्वयुक्शतभिषजः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः लुक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातो वत्सशालः, वात्सशालः। अभिजित्। आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्यायं प्रपञ्चः॥

Siddhanta Kaumudi

Up

एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ।<!जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः !> (वार्तिकम्) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा>> - वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित्, अआयुज्, शतभिषज् इत्येभ्य इत्यर्थः ।परस्ये॑ति शेषः । इत्यादीति अभिजिति जात आभिजितः, अभिजित् । अआयुजोर्जातः-आआयुजः, अआयुक् । शतभिषजि जातः-शातभिषजः , शतभिषक् । जातार्थे इति ।कालाट्ठञि॑ति ठञा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः ।दृष्टं सामे॑ति सूत्र भाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि ङित्त्वपक्षे टिलोपः ।

Padamanjari

Up

वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्चेति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति - ठभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामितिऽ, मुहूर्तमप्यस्ति ॥