अपोनप्त्रपान्नप्तृभ्यां घः

4-2-27 अपोनप्त्रपाम्नप्तृभ्यां घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

'सा अस्य देवता' (इति) अपोनप्तृ-अपान्नप्तृभ्याम् घः

Neelesh Sanskrit Brief

Up

'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'घ'-प्रत्ययः भवति ।

Neelesh English Brief

Up

The words 'अपोनप्तात्' and 'अपान्नप्तात्' get the घ प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to 'अपोनप्तृ' and 'अपान्नप्तृ' respectively.

Kashika

Up

अपोनप्तृ अपान्नपतृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रियं हविः (का०श्रौ० २३.४.१४)। अपांनप्त्रियम्। अपोनपाद्, अपांनपादिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥

Siddhanta Kaumudi

Up

अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि । <<सा अस्य देवता>> 4.2.24 अस्मिन् अर्थे एताभ्याम् घ-प्रत्ययः भवति, तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं भवति । अपोनपात् अस्य देवता = अपोनप्तृ + घ → अपोनप्तृ + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन घकारस्य इय्-आदेशः] → अपोनप्त्रिय [<<इको यणचि>> 6.1.77 इति यणादेशः] अपान्नपात् अस्य देवता = अपान्नप्तृ + घ → अपान्नप्तृ +इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन घकारस्य इय्-आदेशः] → अपान्नप्त्रिय [<<इको यणचि>> 6.1.77 इति यणादेशः]

Balamanorama

Up

<<अपोनप्त्रपान्नप्तृभ्यां घः>> - अपोनप्त्रपांनपतृभ्यां घः । प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः ।

Padamanjari

Up

अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥