4-2-26 शुक्रात् घन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता अपोनप्त्रपाम्नप्तृभ्यां
'सा अस्य देवता' (इति) शुक्रात् घन्
'सा अस्य देवता' अस्मिन् अर्थे 'शुक्र'शब्दात् 'घन्' प्रत्ययः भवति ।
The word शुक्र gets the घन् प्रत्यय in the meaning of 'सा अस्य देवता'.
शुक्रशब्दात् सास्य देवतेत्यस्मिन्नर्थे घन् प्रत्ययो भवति। अणोऽपवादः। शुक्रियं हविः। शुक्रियोऽध्यायः॥
शुक्रियम् ॥
शुक्रियम्॥
<<सा अस्य देवता>> 4.2.24 इत्यस्मिन् अर्थे 'शुक्र' शब्दात् घन् प्रत्ययः भवति । यथा - शुक्रः अस्य देवता = शुक्र + घन् → शुक्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन घकारस्य इय्-आदेशः] → शुक्रिय यथा - शुक्रः अस्य अध्यायस्य देवता सः शुक्रियः अध्यायः ।
<<शुक्राद्घन्>> - शुक्राद्धन् । 'साऽस्य देवता' 'इत्यर्थे' इति शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः ।