क्षीराड्ढञ्

4-2-20 क्षीरात् ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः

Sampurna sutra

Up

'तत्र संस्कृतं भक्षाः' (इति) क्षीरात् ढञ्

Neelesh Sanskrit Brief

Up

'संस्कृतं भक्षाः' अस्मिन् अर्थे क्षीर-शब्दात् ढञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

The word क्षीर gets the प्रत्यय ढञ् in the meaning of 'संस्कृतं भक्षाः'

Kashika

Up

क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणोऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः॥

Siddhanta Kaumudi

Up

अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<संस्कृतं भक्षाः>> 4.2.16 इत्यस्मिन् अर्थे क्षीरशब्दात् ढञ् प्रत्ययः भवति । क्षीरे संस्कृतम् क्षैरेयम् । क्षीरे संस्कृतम् = क्षीर + ढञ् → क्षीर + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → क्षैर + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → क्षैर् + एय [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → क्षैरेय

Balamanorama

Up

Padamanjari

Up

अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति ।'टिड्ढाणञ्' इत्यादिना ङीप् ॥