4-2-19 उदश्वितः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः ठक्
'तत्र संस्कृतम् भक्षाः' (इति) उदश्वितः ठक्, अण् अन्यतरस्याम्
'संस्कृतम् भक्षाः' अस्मिन् अर्थे 'उदश्वित्' शब्दात् 'ठक्' तथा 'अण्' प्रत्ययौ भवतः ।
The word उदश्वित् gets the प्रत्यय ठक् optionally the meaning of संस्कृतं भक्षाः.
उदश्विच्छब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थेऽन्यतरस्यां ठक् प्रत्ययो भवति, पक्षे यथाप्राप्तमण् भवति। औदश्वित्कम्, औदश्वितम्॥
ठक् स्यात्पक्षेऽण् ॥
<<संस्कृतं भक्षाः>> 4.2.16 इत्यस्मिन् अर्थे 'उदश्वित्' ( = तक्रम्) शब्दात् विकल्पेन ठक् प्रत्ययः भवति । पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा - 1. उदश्विति संस्कृतम् = उदश्वित् + ठक् → उदश्वित् + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ठकारस्य ककारः] → औदश्वित् + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → औदश्वित्क 2. उदश्विति संस्कृतम् उदश्वित् + अण् → औदश्वित् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औदश्वित
<<उदश्वितोऽन्यतरस्याम्>> - उदइआतो । ठक्स्यादिति । शेषपूरणमिदम् । उक्तविषये उदइआच्छब्दाट्ठग्वा स्यादित्यर्थः ।
औदश्वित्क इति । ठिसुसुक्तान्तात्कःऽ ॥