आर्धधातुके

2-4-35 आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आर्धधातुक इत्यधिकारोऽयम् <<ण्यक्षत्रियार्षञितः०>> २.४.५८ इति यावत्। यदित ऊर्ध्वमनुक्रमिष्यामस्तदार्धधातुके वेदितव्यम्। वक्ष्यति — <<हनो वध लिङि>> २.४.४२ — वध्यात्। आर्धधातुक इति किम्? हन्यात्। विषयसप्तमी चेयं न परसप्तमी। तेनार्धधातुकविवक्षायामादेशेषु कृतेषु पश्चाद् यथाप्राप्तं प्रत्यया भवन्ति। भव्यम्। प्रवेयम्। आख्येयम्॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

इत्यधिकृत्य॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आर्द्धधातुके>> - आर्धधातुके । इत्यधिकृत्येति ।अदो जग्धि॑रित्यादिविधयो वक्ष्यन्ते॑ इति शेषः । तदधिकारस्थं सूत्रमाह —

Padamanjari

Up

आर्धधातुके॥ वध्यादिति। आशिषि लिङ्,'लिङशिषि' इत्यार्धधातुकसंज्ञा। हन्यादिति। विध्यादिलिङ्। विषयसप्तमी चेयमिति। सामान्यनिर्देशोऽयम्। तत्र व्यापित्वान्नित्यत्वाच्च न तेन सह देशकालकृतं पौर्वापर्यं सम्भवति, तस्याद्विषयसप्तमी। यदि तु व्यक्तिनिर्देशेन परसप्तमी स्यात्, भव्यमित्यादि न स्यात्। तथा हिहलन्तत्वादस्त्यादीनाम्ठृहलोर्ण्यद्ऽ इति ण्यति कृते तत्र परत आदेशैर्भाव्यम्। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य च युकि - भाव्यम्, प्रवैयम्, आख्याय्यमिति प्रसज्येत। इह च'ब्रुवो वचिः' ब्रुवोऽजन्तत्वाद्यति कृते वच्यादेशे च वच्यमिति प्राप्नोति, विषयसप्तम्यां तु नैष दोष इत्याह - तेनेति। यथाप्राप्तमिति। यो यतः प्राप्नोति, स ततो भवतीत्यर्थः। ठसिद्धवदत्राभात्ऽ इत्यस्य भावाभावव्यवस्थार्थम्। अत्र चाङ्गाधिकारे च द्विरार्धधातुकाधिकारः क्रियते। यदि ह्यएतेऽप्यादेशास्तत्रैववीधीरेयन्, जक्षतुः, अधिजगे, अध्यगीष्ट, बभूव, विव्यतुरिति घसाद्यादेशानामसिद्धत्वादुपधालोपातल्लोपे त्ववुग्यणो न स्युः। यदि त्वतोलोपादयोऽप्यत्रविधीयेरन्; गतः, गतवानित्यनुनासिकलोपस्यासिद्धत्वात्ठ्ग्रतो लोपःऽ स्यादित्येषा दिक्॥