3-2-122 पुरि लुङ् च अस्मे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने लट् विभाषा
अनद्यतनग्रहणमिह मण्डूकप्लुत्यानुवर्तते। पुराशब्द उपपदे स्मशब्दवर्जिते भूतानद्यतनेऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्येऽपि प्रत्यया भवन्ति। वसन्तीह पुरा छात्राः। अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। ऊषुरिह पुरा छात्राः। अस्म इति किम्? नडेन स्म पुराधीयते॥
अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥
<<पुरि लुङ् चास्मे>> - पुरि लुङ् चास्मे ।अस्मे इति च्छेदः । पुरेत्याकारान्तमव्यम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभाघादाल्लोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चाल्लडिति । तथा च लुङ् लट् च वेति फलितम् । पक्षे इति । एतदुपभयाऽभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाऽविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने ' इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः ।
पुरि लङ् चास्मे॥ अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानातेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृतौ तु लटा मुक्ते लणेóव स्यादिति कर्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्लिटौ, अभिज्ञावचने लृट् - अभिजानासि देवदत वत्स्यन्तीह पुरा छात्रा इति॥