श्रुवः शृ च

3-1-74 श्रुवः शृ च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्नुः

Sampurna sutra

Up

कर्त्तरि सार्वधातुके श्रुवः धातोः परः श्नुः प्रत्ययः, शृः च

Neelesh Sanskrit Brief

Up

सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।

Neelesh English Brief

Up

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb श्रु is converted to शृ and it gets the श्नु विकरणप्रत्यय.

Kashika

Up

श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति। शृणोति, शृणुतः, शृण्वन्ति॥

Siddhanta Kaumudi

Up

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥

Laghu Siddhanta Kaumudi

Up

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥

Neelesh Sanskrit Detailed

Up

श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः <<कर्तरि शप्>> 3.4.68 इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः 'शृ' अयमादेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) । उदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - श्रु + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्-लकारः] → श्रु + तिप् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → शृ + श्नु + ति [सार्वधातुके प्रत्यये परे <<श्रुवः शृ च>> 3.1.74 इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ] → शृ नो ति [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति उकारस्य गुणः ओकारः] → शृणोति । [ <!ऋवर्णान्नस्य णत्वं वाच्यम् ! इति वार्त्तिकेन णत्वम् ]

ज्ञातव्यम् - श्रु-धातोः शृ-आदेशः केवलं सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे एव भवति, नान्यथा । यथा - 1) कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनम् - श्रूयते । अत्र अयं आदेशः न भवति । 2) 'क्त्वा' इति आर्द्धधातुके प्रत्यये परे अपि अयमादेशः न भवति । श्रु + क्त्वा = श्रुत्वा ।

Balamanorama

Up

<<श्रुवः शृ च>> - श्रुवः शृ च । 'शृ' इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।

Padamanjari

Up