स्पृहेरीप्सितः
1-4-36 स्पृहेः ईप्सितः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
स्पृह् (स्पृहयति) इति धातोः प्रयोगे यः ईप्सितः पदार्थः, तत् कारकं सम्प्रदानसंज्ञकं भवति । यथा - देवदत्तः पुष्पेभ्यः स्पृहयति ।
Kashika
Up
<<स्पृह ईप्सायाम्>> चुरादावदन्तः पठ्यते। तस्येप्सितो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। ईप्सित इत्यभिप्रेत उच्यते। पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति। ईप्सित इति किम्? पुष्पेभ्यो वने स्पृहयति॥
Siddhanta Kaumudi
Up
स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । <<स्पृह (ईप्सायाम्, चुरादिः)>> <{10.410}> अस्य धातोः सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति। <<स्पृह>> इति अदन्तः धातुः ईप्सा (= प्राप्तुम् इच्छा) इत्यस्मिन् अर्थे प्रयुज्यते । तत्र यः पदार्थः ईप्सितः (= कर्त्रा अभिप्रेतः, प्राप्तुम् इष्टः इत्याशयः) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः पुष्पेभ्यः स्पृहयति । अत्र "देवदत्ताय पुष्पाणि रोचन्ते अतः सः पुष्पाणि प्राप्तुम् इच्छति" - इति आशयः वर्तते । एवमेव देवदत्तः फलेभ्यः स्पृहयति, गणेशः मोदकेभ्यः स्पृहयति, हरिः भक्तये स्पृहयति इत्यादिकाः प्रयोगाः सङ्गच्छन्ते ।
दलकृत्यम्
1.
स्पृहेः इति किमर्थम् ? प्रकृतसूत्रस्य प्रयोगः अन्येषां धातूनां विषये मा भूत् । यथा,
देवदत्तः पुष्पाणि लिप्सते (लब्धुम् इच्छति) इत्यत्र प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।
2.
ईप्सितः इति किमर्थम् ? यः पदार्थः प्राप्तुम् इष्टः नास्ति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति । यथा,
देवदत्तः पुष्पेभ्यः वने स्पृहयति इत्यत्र वनस्य ईप्सितत्व-अभावात् तस्य विषये प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।
ईप्सितम् तथा ईप्सिततमम्
प्रकृतसूत्रे
ईप्सितः इति शब्दः प्रयुक्तः अस्ति । अग्रे <<कर्तुरीप्सिततमं कर्म>>
1.4.49 इत्यत्र
ईप्सिततम इति शब्दः प्रयुक्तः दृश्यते ।
एतयोः द्वयोः सूत्रयोः मध्ये विप्रतिषेधः अस्ति । तदित्थम् - <<स्पृह>>-धातोः विषये कर्तुः यत् ईप्सितम् तस्य विषये <<स्पृहेरीप्सितः>>
1.4.36 इत्यनेन सम्प्रदानसंज्ञा भवति । अन्येषां धातूनाम् विषये कर्तुः यद् ईप्सिततम्, तस्य विषये <<कर्तुरीप्सिततमं कर्म>>
1.4.49 इत्यनेन कर्मसंज्ञा भवति । अनेन प्रकारेण द्वयोः अपि सूत्रयोः अन्यत्रप्राप्तिः वर्तते । परन्तु यदा <<स्पृह्>>-धातोः ईप्सिततमस्य चिन्तनं क्रियते, तदा
ईप्सिततमपदार्थः ईप्सितः अपि अस्ति एव इति कारणात् तत्र <<स्पृहेरीप्सितः>>
1.4.36 इत्यनेन सम्प्रदानसंज्ञा प्राप्नोति, किञ्च तस्मिन्नेव स्थले <<कर्तुरीप्सिततमं कर्म>>
1.4.49 इत्यनेन कर्मसंज्ञा अपि प्राप्नोति । एतादृश्यां युगपत् सूत्रद्वयस्य प्राप्तौ <<विप्रतिषेधे परं कार्यम्>>
1.4.2 इति सूत्रेण <<कर्तुरीप्सिततमं कर्म>>
1.4.49 इत्यस्यैव प्रयोगः भवति, येन
देवदत्तः पुष्पाणि स्पृहयति इति साधुप्रयोगः सङ्गच्छते । अतएव प्रकृतसूत्रे कौमुदीकारः स्पष्टीकरोति -
ईप्सितमात्रे इयं संज्ञा, प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञा, पुष्पाणि स्पृहयति ।
Balamanorama
Up
<<स्पृहेरीप्सितः>> - स्पृहेरीप्सितः ।स्पृह ईप्सायाम्चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठएकवचनम् । 'प्रयोग' इत्यध्याहार्यम् । तदाह — स्पृहयतेरित्यादिना । ननुपुष्पेभ्यः स्पृहयती॑त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदापुष्पाणां स्पृहयती॑ति साधु ।कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे॑त्यादिदर्शनात् । वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः ।
Padamanjari
Up
चुरादावदन्तः पठ।ल्त इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति।'मतिबुद्धि' इत्यादिना वर्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति - पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति॥