धारेरुत्तमर्णः

1-4-35 धारेः उत्तमर्णः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

धारि (धारयति) इति धातोः प्रयोगे "यः ऋणं ददाति" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय शतं धारयति ।

Kashika

Up

धारयतेः प्रयोग उत्तमर्णो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। उत्तममृणं यस्य स उत्तमर्णः। कस्य चोत्तममृणम्? यदीयं धनम्, धनस्वामी प्रयोक्ता उत्तमर्णः, स संप्रदानसंज्ञो भवति। देवदत्ताय शतं धारयति। यज्ञदत्ताय शतं धारयति। उत्तमर्ण इति किम्? देवदत्ताय शतं धारयति ग्रामे॥

Siddhanta Kaumudi

Up

धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । <<धृञ् (धारणे, भ्वादिः)>> <{1.1047}> इत्यस्मात् धातोः णिच्-प्रत्यये कृते <<धारि>> इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति । <<धारि>> इति धातोः सामान्यः अर्थः वर्तते स्थिरीकरणम् इति । प्रकृतसूत्रस्य सन्दर्भेण तु अस्य धातोः अर्थः विशेषरूपेण ऋणं स्वीकृत्य ऋणदातृरूपेण कस्यचित् स्थिरीकरणम् इति स्वीक्रियते । यथा, कश्चन देवदत्तः यज्ञदत्तात् शतं रुप्यकाणि ऋणरूपेण स्वीकरोति चेत् देवदत्तः यज्ञदत्तं ऋणे स्थिरीकरोति इति उच्यते । अपि च, एतादृशं अर्थम् प्रकटीकर्तुम् <<धारि>> इति धातोः यदा वाक्ये प्रयोगः भवति, तदा उत्तमर्णस्य (इत्युक्ते, यस्मात् ऋणं स्वीकृतम् तस्य) सम्प्रदानसंज्ञा भवति । अनेन प्रकारेण देवदत्तः यज्ञदत्ताय शतं धारयति इति प्रयोगः सिद्ध्यति । अत्र देवदत्तः = ऋणस्य स्वीकर्ता = अधमर्णः, तथा च यज्ञदत्तः = ऋणस्य दाता = उत्तमर्णः इति शब्दप्रयोगः क्रियते । प्रकृतसूत्रस्य कौमुदीकारेण दत्तम् उदाहरणम् अस्ति - हरिः भक्ताय मोक्षं धारयति इति । अत्र कौमुदीकारस्य आशयः वर्तते - वस्तुतः भक्तः एव मोक्षस्य स्वामी अस्ति, परन्तु सः भक्तः लौकिकसुखम् इच्छन्, तदर्थम् हरिं सम्प्रार्थ्य स्वस्य मोक्षं हरेः सकाशे ऋणरूपेण स्थापयति - इति । अतः अत्र मोक्षः इति पदार्थस्य दाता भक्तः (स च उत्तमर्णः) तथा च स्वीकर्ता हरिः (स च अधमर्णः) इति आशयः वर्तते । <hlb>ऋणम्, अधमर्णः, उत्तमर्णः</hlb> इति शब्दाः एतेषां त्रयाणां व्याख्याः बालमनोरमाकारेण इत्थं दीयन्ते - अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणम् इत्युच्यते । तत्र ऋणस्य ग्रहीता अधमर्णः । ऋणस्य अर्पयिता = धनस्वामी = उत्तमर्णः । सूत्रपाठे <<ऋणमाधमर्ण्ये>> 8.2.60 इति सूत्रेण अधमर्णः इति शब्दः निपात्यते । तत्र अस्य शब्दस्य व्याख्या दीयते - ऋणे अधमः = अधमर्णः । एवमेव, ऋणे उत्तमः = उत्तमर्णः इति शब्दः अपि अनेनैव सूत्रेण सिद्ध्यति । दलकृत्यम् 1. उत्तमर्णः इति किम् ? - यः ऋणं न ददाति, तस्य विषये प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, देवदत्ताय ग्रामे शतं धारयति इत्यत्र ग्रामपदार्थस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।

Balamanorama

Up

<<धारेरुत्तमर्णः>> - धारेरुत्तमर्णः ।धारे॑रित्यनन्तरं 'प्रयोगे' इत्यध्याहार्यम् । 'धृङ् अवस्थाने' इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह — धारयतेरित्यादिना । अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः । प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः-॒तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या । तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते ।॑ इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठपवादः ।

Padamanjari

Up

उतममृणं यस्येति। उतममूत्कुष्टतमम्, उत्कृष्टार्थवृतेरुच्छब्दातमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः, ऋणम् ठृणमाधमर्ण्येऽ इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युतमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते'जातिकालसुखादिभ्यः' परवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति।'धृङ् अवस्थाने' ,ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उतमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्॥