पराजेरसोढः

1-4-26 पराजेः असोढः आ कडारात् एका सञ्ज्ञा कारके अपादानम्

Sampurna sutra

Up

पराजेः असोढः कारकम् अपादानम्

Neelesh Sanskrit Brief

Up

"पराजयते" (ग्लायति / त्रस्तः भवति / न सहते) इत्यस्य प्रयोगे यः असह्य-पदार्थः. तत् कारकम् अपादानसंज्ञं भवति । यथा - छात्रः अध्ययनात् पराजयते ।

Kashika

Up

परापूर्वस्य जयतेः प्रयोगेऽसोढो योऽर्थः, सोढुं न शक्यते, तत् कारकमपादानसंज्ञं भवति। अध्ययनात् पराजयते। असोढ इति किम्? शत्रून् पराजयते॥

Siddhanta Kaumudi

Up

पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । पराजयते (न सहते / ग्लायति / त्रस्तः भवति) इत्यस्य प्रयोगे यम् न सहते (यस्मात् त्रस्यति) तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा - छात्रः अध्ययनात् पराजयते । अत्र "छात्रः अध्ययन सोढुम् अशक्तः अस्ति" इति अर्थः वर्तते । इत्युक्ते अत्र अध्ययनम् इति असह्यः पदार्थः अस्ति । अतः अस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव रावणः रामात् पराजयते इत्युक्ते रावणः रामं सोढुं न शक्नोति इति अर्थः सिद्ध्यति । जि-धातोः विषये धातुपाठे <<जि>> इत्याख्यौ द्वौ धातू स्तः -

  • 1. << जि जये>> <{1.642}> - अयं धातुः उत्कर्षः भवति इत्यस्मिन् अर्थे प्रयुज्यते । यथा - जयतु संस्कृतम् । "संस्कृतस्य उत्कर्षः भवेत्" इति अस्य अर्थः वर्तते । अयं धातुः अकर्मकः अस्ति । अस्य प्रकृतसूत्रेण ग्रहणं न क्रियते ।
  • 2. <<जि अभिभवे>> <{1.1096}> - अभिभवः इत्युक्ते पराभवः । धातुपाठे अस्य शब्दस्य द्वौ अर्थौ दत्तौ स्तः -- i. न्यूनीकरणम् - इत्युक्ते विजयं प्राप्नोति इति । यथा - रामः रावणं जयति / रामः रावणं विजयते / रामः रावणं पराजयते । अत्र जि-धातुः अभिभवः (न्यूनीकरणम्) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अस्य अपि प्रकृतसूूत्रे ग्रहणं न भवति । ii. न्यूनीभवनम् - इत्युक्ते त्रस्तः भवति, सोढुं न शक्नोति, त्रस्यति, दूरे गच्छति इति । अस्मिन् अर्थे अयं धातुः परा इति उपसर्गेण सह एव प्रयुज्यते, तथा च तस्मिन् प्रयोगे <<विपराभ्यां जेः>> 1.3.19 इति सूत्रेण जि-धातोः केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । अस्य अर्थस्य प्रकृतसूत्रे ग्रहणं कृतम् अस्ति । यस्मात् पदार्थात् कश्चन त्रस्तः भवति, इत्युक्ते यं पदार्थं सोढुं न शक्नोति, तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, छात्रः अध्ययनात् पराजयतेदलकृत्यम् 1. असोढः इति किमर्थम् ? यदि पराजयते इति धातुः न्यूनीकरणम् इत्यस्मिन् अर्थे प्रयुज्यते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - रामः रावणं पराजयते । अत्र "रामः रावणस्य हानिं करोति" / "रावणं न्यूनीकरोति" इति अर्थः अस्ति, न हि "रामः रावणम् असह्य तस्मात् दूरे गच्छति" इति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति । <pv> भाष्ये सूत्रस्य प्रत्याख्यानम् भाष्यकारेण इदं सूत्रम् अनावश्यकम् अस्ति इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयं योगः शक्योऽवक्तुम् । कथम्-अध्ययनात्पराजयते इति ? य एष मनुष्यः प्रेक्षापूर्वकारी भवति ,स पश्यति - दुःखमध्ययनं दुर्धरं च, गुरवश्च दुरुपचारा इति,स बुद्ध्या संप्राप्य निवर्तते , तत्र <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्येव सिद्धम् । - महाभाष्यम् यः छात्रः अध्ययनं न सहते / अध्ययनात् त्रस्तः भवति, तस्य बुद्धिः अपि अध्ययनात् अवश्यं निवर्तते । अनेन प्रकारेण, यद्यपि अत्र साक्षात् अपायः नास्ति, तथापि अत्र बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते । ##Balamanorama <<पराजेरसोढः>> - पराजेरसोढः । सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषुसहिवहोरोदवर्णस्ये॑त्योत्त्वे सोढ इति रूपम् । तत्र क्तार्थो भूतकालो न विवक्षितः । तदाह — असह्रोऽर्थ इति । सोढुमशक्य इत्यर्थः । हेतुतृतीयाऽपवादोऽयम् । ग्लायतीत्यर्थ इति ।असहना॑दिति शेषः । यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति । तिरस्करोतीत्यर्थः । अत्र शत्रूणामभिभवनीयतया सह्रत्वाऽभावान्नापादानता । ##Padamanjari अत्र धातुपाठगतस्य जीत्येतावन्मात्रस्यानुकरणम्। ततः परापूर्वो जिः पराजिरित्युतरपदलोपी समासो द्रष्टव्यः। ननु'प्रकृतिवदनुकरणं भवति' इत्यधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधादसुबन्तत्वात्समासो न प्राप्नोति, न; अप्रतिषेधात्, नायं प्रसज्यप्रतिषेधः-धातोर्नेति, किं तर्हि? पर्युदासोऽयम् - यदन्यद् धातोरिति, धातोर्न विधिर्न प्रतिषेधः। एवमपीयङदेशः प्राप्रोति, परत्वाद् घेर्ङ्तीइति गुणो भविष्यतीति, समुदायस्य वा, समुदायोऽनुकरणम्, क्वस्थस्यसमुदायस्य? प्रयोगस्य। यद्येवम्, अध्ययनात्पराजयते-अत्र प्राप्नोति, न ह्यत्र पराजीति रूपमस्ति, क्व तर्हि स्याद्? यत्र पराजीति रूपमस्ति-अध्ययनात्पराजित इति। उदाहरणे पराजिर्न्युनीभावे वर्तते-अध्येतुं ह्रसति ग्लायतीत्यर्थः। अकर्मकश्चायमत्रार्थे, तत्र षष्ठ।लं प्राप्तायां वचनम्, प्रत्युदाहरणे त्वभिभवे वर्तते।'विपराभ्यांजेः' इत्यत्रार्थद्वयेऽपि वर्तमानस्य ग्रहणम्। अयमपि प्रपञ्चो न्यूनीभावपूर्विकायां निवृतौ वृतेः सिद्धम्। अध्ययनात्पराजयते-कोऽर्थः? न्यूनीभावेन ग्लान्या ततो निवर्तते इत्यर्थः। तेन प्रत्युदाहरणे परत्वात्कर्मसञ्ज्ञा भविष्यतीति न चोदनीयम्॥