1-3-19 विपराभ्यां जेः धातवः आत्मनेपदम् कर्तरि
index: 1.3.19 sutra: विपराभ्यां जेः
वि-पराभ्याम् जेः आत्मनेपदम्
index: 1.3.19 sutra: विपराभ्यां जेः
'वि' / 'परा' उपसर्गाभ्याम् 'जि' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.19 sutra: विपराभ्यां जेः
When any of the उपसर्गs - वि or परा - is attached to the verb 'जि', it gets the प्रत्ययाः of आत्मनेपद.
index: 1.3.19 sutra: विपराभ्यां जेः
शेषात् कर्तरि परस्मैपदम् 1.3.78 इत्यस्य अपवादः। विपरा पूर्वाज् जयतेर्धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते साहचर्यत्। तेन इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति।
index: 1.3.19 sutra: विपराभ्यां जेः
विजयते । पराजयते ।
index: 1.3.19 sutra: विपराभ्यां जेः
विजयते। पराजयते॥
index: 1.3.19 sutra: विपराभ्यां जेः
यद्यपि जि (जये) धातुः परस्मैपदी अस्ति, तथापि वि-उपसर्गपूर्वकः परा-उपसर्गपूर्वकः जि-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - विजयते (उत्कृष्टः भवति / विजयं प्राप्नोति), पराजयते (निकृष्टः भवति / पराजयं प्राप्नोति ) ।
ज्ञातव्यम् - 'सत्यमेव जयते' इत्यत्र 'जयते' अयं आर्षः प्रयोगः ज्ञातव्यः । 'सत्यमेव जयते नानृतम् सत्येन पन्थाः विततो देवयानः' इति मुण्डकोपनिषदि अयं प्रयोगः दृश्यते । सामान्यभाषायां तु 'सत्यमेव जयति' इत्येव वक्तव्यम् ।
index: 1.3.19 sutra: विपराभ्यां जेः
विपराभ्यां जेः - विपराभ्यां जेः । वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । पराजयते इति । निकृष्टो भवतीत्यर्थः ।
index: 1.3.19 sutra: विपराभ्यां जेः
साहचर्यादिति। द्वयोर्द्दष्टापचारत्वेऽपि परस्परसाहचर्यादित्यर्थः।'नेर्विशः' इत्यादिप्रकरणसाहचर्याद्वा । बहुवीति। अत्रापि वे जयसि, वी जयत इत्युदाहार्यम्। परा उत्कृष्टा। अथ कथं जेरिति निर्देशः, यावता प्रकृतिवदनुकरणं भवतीति ठचि श्नुधातुऽ इत्यादिनेयङदेशेन भवितव्यम्, न च दीर्घेषु सावकाशमियण्ंó परत्वाद्'घेण्Çóति' इति गुणो बाधत इति युक्तम्;हृस्वेष्वपि पूर्वविप्रतिषेधेन इयङ् इष्टत्वात्। तथा च'क्षियः' इति निर्देशः? उच्यते; धातुत्वं तावदर्थाश्रयम् - क्रियावचनो धातुरिति, इह वा विवक्षितार्थं रूपमात्रमनुकृतमिति। अनुकार्यस्यापि धातुत्वं नास्ति प्रागेवानुकरणस्य॥